________________
[गुणग्रन्थे
४२८ सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः गतार्थत्वान्नेष्यते । तथाहि । यत्र जीवित्वस्य बहिःसत्त्वगृहसत्त्वान्यतरव्याप्यत्वं गृहीतं तत्रान्यतरसिद्धौ जायमानायां गृहसवबाधाद्वहिःसत्त्व मनुमितौ भासते । एवं पीनो देवदत्तो दिवा न भुङले इत्यादौ पीनत्वस्य भोजनव्याप्यत्वावगमाद्भोजनसिद्धौ दिवा भोजनबाधे रात्रिभोजनं सिध्यतीति । अभावप्रत्यक्षस्यानुभविकत्वादनुपलम्भोऽपि न प्रमाणान्तरम् । किञ्चानुपलम्भस्याज्ञातस्य हेतुत्वे ज्ञानाकरणकत्वात्प्रत्यक्षत्वम् शातस्य हेतुत्वे तु तत्राप्यनुपलम्भान्तरापेक्षेत्यनवस्था । एवं चेष्टापि न प्रमाणान्तरं तस्याः सङ्केतग्राहकशब्दस्मारकत्वेन लिप्यादिसमशीलत्वाच्छब्द एवान्तर्भावात् । यत्र च व्याप्त्यादिग्रहस्तत्रानुमितिरेवेति ॥ १४४ ॥ __ (प्र० टी० ) अर्थापत्तिवादिनां मतं निराकत्तुं पक्षमुत्थापयति “अर्थापत्तिः प्रमाणान्तर"मिति । केचन-पूर्वोत्तरमीमांसका: । उपपादकज्ञानहेतुभूतमुपपाद्यज्ञानमर्थोपात्तः प्रमाणम् । उपपादकज्ञनामापत्तिः प्रमा फलम् । यथा 'पीनो देवदत्तो दिवा न भुक्ने" इत्यत्र पीनत्वं रात्रिभोजनाऽनुपपत्याऽसम्भवीति रात्रिभोजनं कल्पयति । अत्रोपपादकज्ञानहेतुभूतं पीनत्वज्ञानमुपपायं सद् अर्थापत्तिः प्रमाणम् । रात्रिभोजनज्ञानमुपपादकं सत् अर्थापत्तिः प्रमेत्येवमेवान्यत्राप्यूम् । तत्र योऽर्थोऽन्येन केनचित्कल्पनीयेन विना नोपपद्यते सोऽर्थ "उपपाद्य” इति । यस्य च कल्पनीयार्थस्थाभावे सत्युपपाद्यं नोपपद्यते सोऽर्थ "उपपादक" इत्यपि न विस्मर्तव्यम् ।
अत्रत्तु-जीवतो देवदत्तस्य बहिःसत्त्वज्ञानमुपपादकमित्यर्थापत्ति: प्रमा । शतवर्षजीवित्वविशिष्टगृहासत्त्वज्ञानमुपपाद्यमित्यर्थापत्तिः प्रमाणम् । अत्रोपपाद्योपपादकभाव एवं लापनीयः । योऽर्थः गृहासत्त्वरूपोऽर्थः, येनान्येन-बहिःसत्त्वरूपेण कल्पनीयेना र्थेन विना नोपपद्यते स गृहाऽसत्त्वरूपोऽर्थः उपपाद्य इत्युच्यते । यस्य च-बहिःसत्त्वरूपस्य कल्पनीयस्यार्थस्याभावे सति उपपाधं गृहाऽसत्त्वं नोपपद्यते सच वहिःसत्त्व रूपोऽर्थः उपपादक इत्युच्यते । अर्थापत्तिरित्येक एव शब्दः प्रमाणप्रमित्योर्बोधकः । तथाहि-अर्थस्य बहिसत्त्वस्य आपत्तिः कल्पना यस्मादिति समासेनापत्तिशब्द उपपाधज्ञानरूपकरणपरत्वेन प्रमाणवाचकः । श्रर्थस्यापत्तिरिति समासेन चोपपादकज्ञानरूपार्थांपत्तिप्रमितिपरः । उपपाद्यज्ञानप्रभवमुपपादकज्ञानमायत्तिः प्रमेति भावः ।
सदेतखण्डयति-"अनुमानेन गतार्थत्वादि"ति। “यत्र जीवित्वस्ये"ति, "जीवतो जीवित्वं बहिःसत्त्वगृहसत्त्वान्यतरव्याप्यम्" इत्याकारकं ज्ञानं जातमित्यर्थः । "तो"ति । तत्रैककोटिसाक्षात्कारे गृहसत्त्वस्य प्रत्यक्षेण बाधात् जीविनो देवदत्तस्य बाह्यसत्त्वमनुमानगम्यमिति नार्थापत्तेः प्रमाणान्तरत्वम् । तथाहि-“देवदत्तो बहिःसत्त्ववान् जीवित्वे सति गृहाभावदर्शनात्" इति । स्थलान्तरेऽपि अर्थापत्तिमनुमानेऽन्तर्भावयति- "एवमि"ति । "भोजनव्याप्यत्वावगमादि"ति-"यन्त्र यन्त्र