________________
सुखनिरूपणम् ।
पीनत्वं तत्र भोजन" मित्याकार कन्यातेर्बहुशो ग्रहणात् । दिवा च प्रत्यक्षेण भोजनबाधात “देवदत्तो रात्रिभोजी दिवाभुञ्जनत्वे सति पीनत्वात्" इत्याकारकानुमानेनैव रात्रिभोजनानुमितिरिति नार्थापत्तिः पृथक् प्रमाणम् । तथाच पारमर्षं सूत्रम् 8" शब्द " ( न्या०
ऐतिह्यानर्थान्तरभावादनुमानेऽर्थापत्तिसम्भवाभावानर्थान्तरभावाच्चाप्रतिषेधः २ । २ । २ ) इति । भाष्यकारोप्याह - "श्रर्थापत्तिरनुमानमेवेति इति । धनुपलब्धिरपि पृथक् प्रमाणमिष्यते मीमांसकैस्तदूषयति - " श्रभावप्रत्यक्षस्ये" ति विशेषणतादिसम्बन्धेन श्रभाव साक्षात्कार: प्रपञ्चितः प्रत्यत्तखण्डे तदर्थं प्रमाणान्तरापेक्षा नास्तीति भावः । श्रत्रादन्यदप्याह - सिद्धान्ती " किञ्चे" ति । उपलम्भाभावोऽनुपलम्भः अनुपलब्धिः तस्येत्यर्थः । प्रतियोग्युपलम्भाभावः स्वयमज्ञातः अभावप्रमाहेतुः ? ज्ञातो वा इति विकल्पद्वयम् । तत्राद्ये पत्ते दोषमाह - "अज्ञातस्य हेतु. व" इति । ज्ञानकरणकं ज्ञानं प्रत्यक्षमित्यवोचामैवेति भावः । द्वितीये दोषमाह
- " ज्ञातस्य हेतुत्व" इति । " अनवस्थे" ति - प्रथमानुपलम्भस्य ज्ञानं द्वितीयायत्तं द्वितीयस्यापि तृतीयायत्तमित्येवमुत्तरोत्तरं पश्चाल्लना कारणमुखी अनवस्थेति भावः । तान्त्रिकश्चेष्टामपि प्रमाणान्तरं मन्यन्ते तन्मतं निरस्यति - " एवं चेष्टापी" ति । युक्तिमाह तस्या" इत्यादिना । "यत्रत्वि" ति - मूकबधिरादिषु । "अनुमिति रेवति । श्रयमत्र प्रयोगः - " श्रयं मूकबधिकरो भोजननाभिलाषी मुखप्रसारणादिविलक्षणचेष्टावत्त्वात् यन्नैवं तन्नैवं यथा तदितरः ।
श्रयमभिप्रायः -- कृतसङ्केता प्रकृतसङ्केता इति द्विविधा चेष्टा । आद्या सङ्कतेग्रा हकशब्दस्मारिकेतिलिप्यादिवत् शब्दप्रमाणेऽन्तर्भवति । द्वितीया व्याप्तिग्रहद्वाराऽनुमानान्तर्भूतेति न सापि पृथक् प्रमाणम् । अत्र बहुवक्तव्यं ग्रन्थगौरवभिया नोक्तम् ॥ १४४॥ (का० ) सुखं तु जगतामेव काम्यं धर्मेण जायते ।
ཞུ
"
४२६
( मु० ) सुखं निरूपयति - सुखं त्विति । काम्यमभिलाषविषयः । धर्मेयेति । धर्मत्वेन सुखत्वेन कार्यकारणभाव इत्यर्थः ॥
( प्र० टी० ) सुखमिति स्पष्टम् । धर्मस्य लक्षणं वच्यति । जगतां जनानामित्यर्थः । “धर्मत्वेने " ति - इदन्तु प्राचां मतानुरोधेन । नवीनमते तु - नित्यं विज्ञानमानन्दं ब्रह्मेतिश्रुत्या भगवति नित्यसुखसिद्धौ धर्मत्वेन जन्यसुखत्वेन च कार्यकारणभावो बोध्यः सुखत्वावान्तरजातिर्वेति । धर्ममात्रासाधारणकारणको गुणः सुख" मिति तलत्तणमितिभावः । धर्मसुखयोः सामान्यकार्यकारणभावस्तु प्राचां मतानुरोधेन । नव्यमते तु " नित्यं विज्ञानमानन्दम्ब्रह्म " - इति श्रुत्या भगवति नित्य सुखसिद्धौ धर्मस्य कार्यतावच्छेदकं जन्यसुखत्वं बोध्यम् ।
* इदं सिद्धान्तसूत्रम् । न प्रमाणचतुष्टयस्य प्रतिषेध इत्यर्थः । तत्र हेतुमाह " शब्द " इत्यादि ।