Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas
View full book text
________________
विधवाद: ।
तथा । विषादिभक्षणेति । श्रादिना मरणसाधनौषधपरिग्रहः । तदानीमिति - विषादिभक्षण प्रवृत्यव्यवहितपूर्वकाल इत्यर्थः । बलवदनिष्टाऽसम्बन्धित्वज्ञानात् क्रोधाक्रान्तोपि विषादिभक्षणे प्रवर्त्तते इति न तत्रापि कार्यकारणभावव्यभिचारः । तथाचविषादिभक्षणविषयक बलवद्वेषस्य तदानीन्तनत्वाभावेन तत्कालीन बलवदद्वेषविषय पदार्थान्तराऽननुबन्धित्वस्य तत्र सत्त्वेन तदानीं तत्र तादृशज्ञानाऽसम्भवादिति भाव इति प्राचीना प्रभा । शङ्कते - "नचे" ति । नास्तिकस्य = अस्ति परलोक इति ज्ञानरहितस्य पुंसः । श्रगम्येतिश्रगम्या गन्तुं सम्बन्धुमयोग्या व्यभिचारिणीति यावत्, तस्या गमनं सम्भोगः । श्रत्र सप्तम्यर्थो विषयत्वम् - अगम्यागमनादिविषयकप्रवृत्तावित्यर्थः । नरकसाधनत्वज्ञानात् = प्रवृत्तेः पूर्वं नरकरूपबलवदनिष्टसाधनत्वज्ञानान स्यात्तस्य प्रवृत्तिरिति भावः । समाधत्ते – 'उत्कटरागादिनेति । श्रगम्यागमनादिसुखे उत्कटरागादिनेत्यर्थः । अगम्यागमनसाधनपरभार्यारूपविषयस्य यत्पुनः पुरनुरञ्जनं तद्विषयको कटेच्छयेत्यर्थः । “पुनः पुनः विषयानुरञ्जनेच्छा रागः" इत्याह प्रशस्तपादाचार्यः। तथाच तदानीमुत्कटरागस्तादृशज्ञानस्य प्रतिद्वन्द्वीति भावः । नरकसाधनताधीतिरोधानात् = बलवदनिष्टसाधनताबुद्धेरनुत्पादादित्यर्थः । तादृशसुखे उत्कटरागसत्त्वे अगम्यागमनजन्यनरके बलवद्द्वेषानुदयादिति भावः । कृतिसाध्यताज्ञाननिवेशस्य फलमाह — "वृष्टपादोत्विति । " किन्त्विच्छामा श्रमि " ति । इष्टसाधनत्वप्रकारकज्ञानात् "वृष्टिर्भवेद्" इत्याकारकेच्छामात्रमित्यर्थः । “कृतिश्चे"ति —“कृतिसाध्यताज्ञान" मित्यत्र कृतिपदेन प्रवृत्तिरूपाया एव कृतेर्ग्रहणम् । तस्य फलमाह - " तेनेति । " इत्थञ्चे" ति - प्रवृत्तिम्प्रतीष्टसाधनताज्ञानस्य कारणत्वेचेत्यर्थः । “विधेरपी " ति - "अग्निष्टोमेन यजेत स्वर्गकाम" इत्यादौ "यजेत" इत्यादिविधेरपि बलवदनिष्टाननुबन्धीष्टसाधनत्वविशिष्टकृतिसाध्यत्वमेवार्थः । तत्र हेतुः “प्रवत्तकत्वानुरोधादिति । अत्र वदन्ति न विधिः साक्षात् प्रवर्त्तकज्ञानमुत्पादयति किन्तु विधिवाक्यादिष्टसाधनत्वे कृतिसाध्यत्वे चावगते " किमिष्ट " मित्य|काङ्क्षायां स्वर्गकामादिपदसमभिव्यारात् स्वर्गसाधनमिति ज्ञानमानुमानिकं मानसं वोत्पद्यते अन्यथा विशेषरूपेण फलज्ञानाभावात् प्रवृत्त्यनुपपत्तेः । एवमिदानी - न्तनत्वान्तर्भावेण कृतिसाध्यत्वादिज्ञानमनुमानादिति । अत एवोक्तं मणिकृतापि— " एवं विधिजन्यज्ञानजन्यं ज्ञानं प्रवर्त्तक" मिति ।
अत्राहुर्भट्टपादाः - लोके प्रवृत्तिर्द्वधा स्वच्छाधीना परप्रेरणाजन्या च । तत्र श्राद्यायां प्रवर्त्तनाया अनुपयोगेऽपि द्वितीयप्रवृत्तौ सा प्रयोजिका "श्राचार्यप्रेरणया इदं करोमि " इति व्यवहारात् । प्रवर्त्तना च प्रवर्त्तयितुः प्रवृत्त्यनुकूलो व्यापारविशेषः । सच चेतनस्याभिप्राय एव । श्रचेतनस्य तु वेदस्य श्रभिधानामकः कश्चिच्छ्रब्दसमवेतः । तथाच आश्चार्याभिप्रायज्ञानाद्यथा शिष्यः प्रवर्त्तते तथाऽभिधाज्ञानाद्विधिस्थले (पुंसां ) प्रवृत्तिरिति । सैव ( अभिधैव ) लिडर्थः, सैव च शब्दभावना लिङ्त्वांशेनोच्यते ।
"
४३७
Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486