Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas
View full book text
________________
४२४
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावस्याः
[गुणप्रन्ये
यति । तन्मतं दूषयति । तन्न सम्यगिति । व्याप्तिज्ञानं विनापि शाब्दबोध. स्यानुभवसिद्धत्वात् । नहि सर्वत्र शब्दश्रवणानन्तरं व्याप्तिशाने प्रमाणम. स्तीति । किञ्च सर्वत्र शाब्दस्थले यदि व्याप्तिज्ञानं कल्प्यते तदा सर्व भानुमितिस्थले पदक्षानं कल्पयित्वा शाब्दबोध एव कि न स्वीक्रियता. मिति ध्येयम् ॥ १४०॥ १४१॥
(प्र० टी० ) कारिकाथं ब्याख्यातुमाह-"शब्दोपमानयो" रितीति । शब्दस्यानुमानेऽन्तीवं दर्शयति-"दण्डेन” इत्यादिना । "तात्पर्य"ति-वक्तृतात्पर्यस्य विषयभूतो य: स्मारितः शक्किलक्षणान्यतरसम्बन्धात्मकवृत्या उपस्थापितः पदार्थानां परस्परसंसर्ग: तस्य या प्रमा यथार्थज्ञानं तत्पूर्वकाणीत्यर्थः । कल्पान्तरमाह"यद्व"ति । दृष्टान्ते साध्यसिद्धयभावात् कथं व्याप्तिग्रह इत्यत आह "दृष्टान्तेऽ पी"ति । उपमानस्यान्तर्भाव दर्शयति-"एवमि"ति कल्पान्तरमाह-"यद्वे"ति। तत्खण्डयति-"तन्ने"ति । गवये गोसादृश्यस्य दर्शनादेवातिदेशवाक्यार्थस्मरणे व्यतिरेकम्यातिप्रतिसन्धानं विनापि 'अयं पुरोवर्तिपिण्ड: गोशब्दवाच्य” इति ज्ञानोदयादित्यर्थः । एवं शब्दार्थयोाप्त्यभावात् शब्दस्याप्यनुमानेऽन्तर्भावो नास्ति । कथं तयोाप्तयभाव इति चेत् ? शृणु-गवयादिशब्दो गुणत्वादाकाशे तिष्ठति व्यक्तिविशेष पिण्डो वने तिष्ठति तद् “यन्त्र शब्दस्तत्रार्थ" इति नास्ति व्याप्तिः । सर्वदा व्याप्ति. ज्ञानसापेक्षेऽनुमाने व्याप्तिनिरपेक्षयोःशब्दोपमानयोः कदाचिदप्यन्तर्भावो भवितुं नाहति । ननु-सर्वत्र शब्दश्रवणानन्तरमनुमितिरूपकार्यान्यथानुपपश्या व्याप्तिज्ञानं कल्पनीयमित्यत आह -"किञ्चे"ति । “पदशान"मिति-पदस्मरणं कल्पयित्वेत्यर्थः । प्रतिवन्दीतर्कोऽयम् ।
इदमत्राकूतकम्-अस्ति तावत् "गौरखि" "गामानय" इत्यादिसाकाङ्क्षशब्देभ्यः स्वस्ववृ या पदार्थानामुपस्थितिः, तदुत्तरं गवादेरस्तित्वादेः अन्वयवागाही ( संसर्गाव वगाही) विलक्षणो बोधो यत्रान्वयव्यतिरेकाभ्यामाकाङ्क्षादिमत्तया शब्दस्यावगमो हेतुरिति राजमार्गः। यत्तु "गौरस्तितावान् स्वर्मिकास्तित्वान्वयबोधानुकूलाकाताश्र. यपदस्मारितत्वाद्वा घटवत्, अथवा अस्तिपदसमभिव्याहृतो गौः पदस्मारितत्वात् चक्षुर्वत्" इत्यनुमानत एव संसर्गधीसिद्धिः पदानामेकवाक्यतापन्नस्वरूपसमभिन्याहृतत्वनिश्चयं विना न्यायनयेऽप्यन्वयबोधस्याऽनुत्पत्त्या पूर्व तस्याऽवश्यकत्वात्" इत्याहुवैशेषषिकाः तन्न, गवादेः पदस्मारितत्वायभावग्रहदशायामुत्पन्नस्य "गौरस्ती" त्याद्यन्वयबोधस्योक्तहेतुत्वेनाप्यनिष्पत्तेः । पदजन्या हि पदार्थस्मृति: स्वरूपसत्येवान्वयबुद्धावुपयुज्यते नतु ज्ञाता प्रमाणाभावात्, पदैरसारितस्यापि तस्मारितस्वग्रहदशायामन्वयधीप्रसङ्गाच्च । वाक्यार्थस्यापूर्वस्वेन तद्गर्भसाध्यस्य प्रायश: प्रागनुपस्थित्याऽनुमानायोगात् । वस्तुतो वाक्यार्थबोधस्यानुमितित्वे सत्येव साकाङ्क्षपदत्वादिलिङ्गकमनुमानं

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486