Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas

View full book text
Previous | Next

Page 450
________________ ४२२ सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावश्या: गुणमन्ये भावादिति सत्प्रतिपक्षसम्भवात् । इत्थं च साधनव्यापकोऽपि कचिदुपाधिः। यथा कारका पृथिवी कठिनसंयोगववादित्यादावनुष्णाशीतस्पशवस्वम् । न चात्र स्वरूपासिद्धिरेव दूषणमिति वाच्यम्, सर्वत्रोपाधेर्दूषणान्तरसाकर्यात् । अत्र च साध्यव्यापकः पक्षावृत्तिरुपाधिरित्याहुः ॥ (प्र० टी० ) उपाधिफलमाह-कारिकायां 'व्यभिचारस्ये"ति । तद्विवृणोति -मुक्तावल्या "उपाधिव्यभिचारणे"ति । यथा चैतत्तथा घटयित्वा दर्शयितुमाह -"यो"ति । उदाहरति-"यथे"ति । नियमशरीरमाह-"व्यापकव्यभिचारिण"इति । शुद्धसाध्यव्यापकोपाधेः फलं दर्शयित्वा धर्मान्तरावच्छिन्नसाध्यव्यापकोपाधिव्यभिचारद्वारा साध्यन्यभिचारप्रकारं प्रतिजानीते-“यत्रत्वि"ति । उदाहरणेन दर्शयति-"यथे"ति। "मित्रातनयत्वादि"ति-मित्रानाम्री काचिद् योषिदासीत् तस्यां विपत्पातादुत्तमाहारालाभेन शाकाद्याहारपरिणतिवशात् सप्त सुता: श्यामवर्णाः सञाताः पश्चात्सुदिष्टोदये सम्पदुपगमादुत्तमाहारलाभेन अष्टमो गौरवर्णः पुत्र उत्पनः । तस्मिशाकपाकजस्वाभावात् साधनाव्यापकत्वं सुस्पष्टमेवेति । अनया रीत्याऽन्यत्रापि बोध्यम्। नन्वनुमानमप्रमाणं सर्वत्र "परेतरत्व" रूपोपाधेः सत्त्वात् । तथाहि-पक्ष साध्यसन्देहात् पक्षातिरिक्त सर्वत्र साध्यव्यापकत्वस्य सत्त्वाचेत्याशङ्कायां सिद्धान्तमाह -"बाधानुन्नीते"ति । बाधदोषासहकृतपत्रेतरत्वरूपधर्मस्य तु न क्वचिदप्युपाधित्वम् । तत्र हेतुमाह"साध्यव्यापकते"ति । अयं भावः-यधर्मावच्छिन्नपदेन पक्षमात्रवृत्तिपर्वतत्वादीनां ग्रहणं स्यात् परन्तेषां पर्वतेतरत्वादिसामानाधिकरण्यं नास्ति तस्मान्न पक्षेतरत्वमुपाधिः । हेत्वन्तरमाह-"स्वव्याघातकत्वादि"ति उपाधिमात्रस्य दूषकत्वम्याघातकत्वादिस्यर्थः । पक्षेतरत्वस्योपाधित्वे सर्वत्रानुमाने पक्षे. तरवस्योपाधेः सम्भवादनुमानमात्रोच्छेदापत्त्या व्यभिचारानुमानाधीनस्योपाधेर्दूषकस्वासम्भवादिति भावः । ... ननु-यन्त्र साध्यव्यापकताग्राहकं प्रमाणमस्ति तत्र पक्षतरत्वे लक्षणातिव्याप्तिदुर्वारेत्यत पाह-बाधोनीतस्त्वि"ति । बाधेन पक्षे साध्याभाववत्तया उन्नीतः साध्यब्यापकत्वेन निश्चित इत्यर्थः । उदाहरति-"यथेति । "वन्हिरनुष्ण" इति। बाधस्थलमेतदिति ततोऽत्र वन्हीतरत्वस्योपाधित्वे न दोषः । सन्दिग्धोपाधिमाह"सन्दिग्धोपाधि"रिति । पक्षे साध्यसन्देहेन साध्यव्यापकतासन्देहस्य पक्षेतरत्वे सम्भवादितिभावः । “पक्षतरस्त्वि"ति-पक्षतरे सन्दिग्धोपाधिमुद्भावयन्तौ वादि. प्रतिवादिनाधुभावपि निगृहीतौ मन्तव्याविति भावः । किमन्न बीजमित्यत पाह"कथके"ति। सत्प्रतिपक्षोन्नायकत्वेनोपार्दूषकतावादिनां मतमाह- केचित्वि"ति । यथा चैतत्तथा दर्शयति-"तथाही"त्यादिना । स्पष्टम् "इत्थञ्चेति । सत्प्रतिपक्षो

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486