Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas

View full book text
Previous | Next

Page 448
________________ ४२. सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावश्याः [गुणग्रन्थे च्छेत् तदा पूर्वोद्भावितःसोऽनुपाधिमन्तव्यः, हेतुश्च निरुपाधिकः साध्यसाधनक्षमः । अनोदाहरणम्-"विवादाध्यासितं जगत् कर्तजन्यं कार्यत्वाद् घटवत्" इस्यास्तिकानां वैदिकानामीश्वरसाधकानुमानम् । अत्र नास्तिका "शरीरजन्यत्वमुपाधि" रित्या. चक्षते । सच सपक्षे साध्यव्यापकः पक्षे च साधनाव्यापकः । अर्थात् “ यन्त्र यन्त्र कर्त्तअन्यत्वं तत्र शरीरजन्यत्व" मित्यस्ति साध्यव्यापकता घटादौ, यत्र यत्र कार्यत्वं तत्र शरीरजन्यत्वमिति वक्तुं न शक्यते । पते जगति कार्यत्वसत्त्वेऽपि शरीरजन्यवाभावादि. त्यस्ति साधमाव्यापकता । एतत्परीक्षार्थम् “विमतं ( जगत् ) कर्तृजन्यं न भवति शरीरजन्यवाभावाद् व्योमवत्" इति नास्तिकमतानुरोधेन उपाध्यभावेन साध्याभावानुमाने क्रियमाणे "प्रागभावाप्रतियोगित्व" मुपाधिः । सच यत्र यत्र कर्तृज. न्यवाभावः तत्र तत्र (प्रागभावाप्रतियोगित्वं) शरीरजन्यत्वाभाव इत्याकाशे सर्व सम्मतस्वात् साध्यस्य व्यापकः, पक्षे च जगति शरीरजन्यत्वाभावे सत्यपि कर्तृजन्य. वाभावाभावात् (प्रागभावाप्रतियोगिस्वाभावात् ) साधनस्याध्यापक इति । तस्माद्वैदिकानुमाने दीयमान: "शरीरजन्यत्व" मित्युपाधिरनुपाधिरेव मन्तव्यः । एवमभ्यत्रप्यूमम् ॥ १३ ॥ (का०) सर्वे साध्यसमानाधिकरणाः स्युरूपाधयः। हेतोरेकाश्रये येषां स्वसाध्यव्यभिचारिता ॥ १३ ॥ (मु०) अत एव लक्ष्यमप्यूपाधिस्वरूपमेतदनुसारेण दर्शयतिसर्वइति । स्वमुपाधिः स्वं च साध्यं च स्वसाध्ये तयोर्व्यभिचारितेत्यर्थः ॥ १३६॥ (प्र० टी० ) “अत एवे"ति । यद्धर्मीवच्छिन्नत्वघटितनिरुक्कलक्षणस्य तात्पर्यविषयत्वादेव । एतदनुसारेण उपाधेर्निष्कर्षमाह-परममूले “सर्व" इति । येषामुपाधीनां हेतोः साधनस्य एकाश्रये यस्मिन्कस्मिंश्चिदप्यधिकरणे स्वसाध्यन्यभिचारिता - स्वस्य साध्यस्य च व्यभिचारिता नाम साधनवनिष्ठात्यन्ताभावप्रतियोगित्वं, ते सर्व उपाधयः साध्यसमानाधिकरणः साध्यवद्वत्यन्ताभावाप्रतियोगिनः स्युः, साध्याधिकरणवृत्तयो भवन्तीत्यर्थः । स्वस्य साध्यमिति षष्ठीतत्पुरुषभ्रमं ज्यावर्तयितुमाह-मुक्कावल्या "स्वञ्चे"ति। * यथावृत्त्या यस्य साधनस्य साध्यं पवे व्यावर्तते स धर्मस्तत्र हेतोपाधिः । सच धर्मः कतमो भवति ? यस्य व्यावृत्तिः साध्यसाधनसम्बन्धविरोधिनी। यथा श्रादैन्धनसंयोगवश्वं वह्निमत्त्वे । व्यावर्त्तते हि तद्वावृत्या धूमवत्त्वं तप्ताय:पिण्डे । व्यावर्त्तते च भावत्वव्यावृत्त्या ध्वंसे जन्यस्वानित्यत्वसम्बन्धः। शाकपाकजत्वव्यावृत्त्या श्यामत्वमैत्रातनयत्वयोः सम्बन्धश्च । पक्षधर्मताबलाच्च भनित्यत्वश्यामत्वाभावयोः पर्यवसानम् । तथा वायावुद्भूतरूपवत्त्वं व्यावर्त्तमानं द्रव्यत्वे सकि प्रत्यक्षत्वं निवर्तयत् प्रत्यक्षत्वाभावमादाय सिद्धयतीति सर्वत्र पक्षे साध्याभावासिद्ध्या

Loading...

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486