Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas
View full book text
________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[ गुणग्रन्थे
( मु० ) इदानीं परकीयव्याप्तिग्रहप्रतिबन्धार्थमुपाधिं निरूपयति-साध्यस्येति । साध्यत्वाभिमतव्यापकत्वे सति साधनत्वाभिमताव्यापकत्वमुपाधिरित्यर्थः । ननु स श्यामो मित्रातनयत्वादित्यत्र शाकपाकजन्यत्वं नोपाधिः स्यात्तस्य साध्यव्यापकत्वाभावाच्छया मत्वस्य घटादावपि सत्त्वात् एवं वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वादित्यत्रोद्भूतरूपवत्वं नोपाधिः स्यात्प्रत्यक्षत्वस्यात्मादिषु सच्वात्तत्र च रूपाभावात्, एवं ध्वंसो विनाशी जन्यत्वादित्यत्र भावत्वं नोपाधिः स्याद्विनाशित्वस्य प्रागभावेऽपि सत्त्वात्तत्र च भावत्वाभावादिति चेन्न, यद्धर्मावछिन्न साध्यव्यापकत्वं तद्धर्मावछिन्न साधनाव्यापकत्वमित्यर्थे तात्पर्यात् । मित्रा तनयत्वावच्छिन्न श्यामत्वस्य व्यापकं शाकपाकजत्वं तदवच्छिन्नसाधनाव्यापकं च । एवं पक्षधर्मवहिर्द्रव्यत्वावच्छिन्न प्रत्यक्षत्वस्य व्यापक मुद्भूतरूपवम् बहिर्द्रव्यत्वावच्छिन्न साधनस्याव्यापकं च, एवं ध्वंसो विनाशी जन्यत्वादित्यत्र जन्यत्वावच्छिन्न साध्यव्यापकं भावत्वम् । सद्धेतौ तु एता
शो धर्मो नास्ति यदवच्छिन्नस्य साध्यस्य व्यापकं तदवच्छिन्नस्य साधनस्य चाव्यापकं किञ्चित्स्यात् । व्यभिचारिणि तूपाध्यधिकरणं यत्साध्याधिकरणं यच्चापाधिशून्यं साध्यव्यभिचाराधिकरणं तदम्यतरत्वावच्छिन्नस्य साध्यस्य व्यापकत्वं साधनस्य चाव्यापकत्वमुपाधेरन्ततः संभवतीति ॥ १३८ ॥
४१८
(प्र०टी ) सिद्धिविषयत्वरूपस्य साध्यस्य सिद्धिजनकस्वरूपस्य च साधनत्वस्य सोपाधावभावान्मूलकारिकालक्षणे त्रुटिं मत्वा तत्राभिमतपदनिवेशं करोति - " साध्य त्वाभिमते 'ति । उक्तलक्षणस्याव्याप्तिमाशङ्कते - " नन्विति । " स श्याम' इति । काचिन्मित्रा नाम्नी कल्याणी स्त्री पुत्रद्वयमजीजतत्, एकदा तीरादिशुभ्र भोजना गौरवर्णम्, श्रन्यदा शाकभोजना सती श्यामवर्णम् । तदत्र गौरवर्णस्तत्पदार्थः पक्षः | दिनकरभट्टस्तु - काकः श्यामो मित्रातनयत्वादित्यादावित्यर्थ इति व्याकरोत् तच्चि - म्स्यम्, तत्र मित्रातनयत्वहेतोः स्वरूपासिद्धेः उपाधिलक्ष्य बहिर्भूतत्वात् । परन्तु काकाहमके पक्ष स्वरूपासिद्धोप्ययं हेतुः श्यामत्वरूपसाध्याभाववति मित्राया अष्टमे पुत्रे वर्तमानवन्मित्रातनयत्वव्यभिचार्यपीत्यादि * विज्ञैः स्वयं विवेच्यम् ।
در
साध्याव्यापकत्वसुपपादयति - " श्यामत्वस्येति । श्रयमाशयः - यत्र यत्र श्यामत्वं तत्र तत्र शाकपाकजन्यत्वं न घटते, घटादौ कोकिलादिषु च श्यामत्वस्य सवेs पिशाकपाकजन्यत्वाभावात् । एवं साधनावच्छिन्नसाध्यव्यापकोपाधावव्याप्तिं निरूप्य पक्षधर्मावच्छिन्नसाध्यव्यापको पाधावव्याप्तिमाह – “ एवं वायुरिति ।
"
"L
* स्वरूपाऽसिद्धिसङ्कीर्णव्यभिचारी, सङ्कीर्णवाधादिवदिति भावः ।
यत्र यत्र

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486