Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas

View full book text
Previous | Next

Page 447
________________ उपाधिः। प्रत्यक्षस्वं तत्र तत्र उद्भूतरूपवत्व" मिति न घटते आत्मादिषु प्रत्यक्षत्वसत्वेऽपि उद्भूतरूपवत्त्वाभावात् । स्थलान्तरे उपाधावव्याप्तिं दर्शयति-"एवं ध्वंस"इति । " यत्र यत्र विनाशित्वं तत्र तत्र भावत्व" मिति न घटते प्रागभावे विनाशित्वसत्त्वेऽपि भावत्वं नास्ति यतः, इत्युपाधिलक्षणाव्याप्तिरेषु स्थलेषु बोध्येति शङ्काग्रन्थार्थः । विवक्षितार्थं प्रदर्शयन् अव्याप्तीः परिहरति-" इति चेन्न" इत्यादिना । __“यद्धर्मावच्छिन्ने"ति-यादृशधर्मविशिष्टसाध्येन सहोपाधेः सहचारः तादृशधर्मविशिष्टहेतुना सह व्यभिचारोऽवश्यम्भावी उपाधित्वप्रयोजकोस्तीतीष्टमस्माकम् । एतदेव स्वयं स्पष्टीकरोति मूले "मित्रातनयत्वावच्छिन्नश्यामत्वस्ये" त्यादिना । सामानाधिकरण्येन मिन्नातनयत्वावछिन्नश्यामत्वस्य व्यापकं शाकपाकजन्यत्वम् , तादास्म्येन मित्रातनयत्वावच्छिन्नमित्रातनयत्वरूपसाधनस्याव्यापकन्चेति नैवाव्याप्तिः । एवमेव "एवं पक्षधर्मबहि द्रव्यत्वावछिन्ने" त्यादावपि परिहारप्रकारो बोध्यः । शुद्धसाध्यव्यापकस्थले तु नाव्याप्तिलेशोऽपि । तथाहि-'धूमवान्वन्हे" रित्यत्र “आतेन्धनसंयोग" उपाधिः । कथमिति चेत् ? उच्यते-आर्द्रधनसंयोगो हि “यत्र यत्र धूमस्तत्र तत्रा.न्धनसंयोग" इति साध्यस्य व्यापको भूत्वापि “यत्र यत्र वह्निः तत्र तत्रान्दैन्धनसंयोग" इति साधनसहचारन्यभिचारी भवति तप्तायःपिण्डे वह्निसत्वपि आनॆन्धनसंयोगाभावात् । ___ सर्वश्वायमुपाधिः साध्यसमव्याप्तः । कदाचित् कुत्रचित्साध्यादाधकदेशवृत्तितया विषमव्याप्तोऽपि भवति । " यत्र यत्र धूमस्तत्र तत्र श्रादे॒न्धनसंयोगः यत्र यत्र श्राद्रेन्धनसंयोगः तत्र तत्र धूम" इति साध्यसमव्याप्तः । “भावत्व" चोपाधिषिमन्याप्तः । एवं यथायथमूह्यम्। ___ उपाधिस्थलवैशथायाह-"सद्धतावि"ति । “वह्निमान् धूमात्" इत्यादिसद्धेतावित्यर्थः । स्पष्टमन्यत् । “व्यभिचारिणि त्वि"ति-'धूमवान् वह्ने" रित्यादौ उपाध्यधिकरणं = पर्वतमहानसादि यत् साध्याधिकरणं = धूमादेरधिकरणं, यच्चोपाधिशून्यं = आन्धनसंयोगरूपोपाधिरहितं अयोगोलकादि, साध्यव्यभिचाराधिकरणं = साध्यस्य धूमादेयोंहेतुना वन्ह्यादिना सह व्यभिचारः अर्थात् साध्यं विहायापि वन्ह्यादेरयोगोलकादाववस्थितिः तदन्यतरावच्छिन्नस्य साध्य स्य = पर्वतायोगोलका. न्यतरस्वविशिष्टस्य धूमादेः साध्यस्य, व्यापकत्वं = साध्यसमानाधिकरणात्यन्ताभावाप्रतियोगित्वं, साधनस्य = वन्ह्यादेश्च अव्यापकत्वं = साधनवन्निष्ठात्यन्ताभावप्रतियो. गित्वं, अन्ततः = तादृशधर्मान्तरस्यास्फूतौ उपाधेः सम्भवतीत्यत एवैतादृश उपाधिः "शुद्धसाध्यव्यापक" इति उच्यत इति शेषः । इदन्तु बोध्यम्-यत्र यत्रोपाधिरापतेत् तत्र सर्वत्र तत्परिशुद्ध्यर्थमुपाधिव्य. तिरेकेण साध्यन्यतिरेकोऽनुमातव्यः । तस्मिन्ननुमीयमाने चेत् पुनरपि कश्चिदुपाधिराग

Loading...

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486