________________
उपाधिः।
प्रत्यक्षस्वं तत्र तत्र उद्भूतरूपवत्व" मिति न घटते आत्मादिषु प्रत्यक्षत्वसत्वेऽपि उद्भूतरूपवत्त्वाभावात् । स्थलान्तरे उपाधावव्याप्तिं दर्शयति-"एवं ध्वंस"इति । " यत्र यत्र विनाशित्वं तत्र तत्र भावत्व" मिति न घटते प्रागभावे विनाशित्वसत्त्वेऽपि भावत्वं नास्ति यतः, इत्युपाधिलक्षणाव्याप्तिरेषु स्थलेषु बोध्येति शङ्काग्रन्थार्थः । विवक्षितार्थं प्रदर्शयन् अव्याप्तीः परिहरति-" इति चेन्न" इत्यादिना । __“यद्धर्मावच्छिन्ने"ति-यादृशधर्मविशिष्टसाध्येन सहोपाधेः सहचारः तादृशधर्मविशिष्टहेतुना सह व्यभिचारोऽवश्यम्भावी उपाधित्वप्रयोजकोस्तीतीष्टमस्माकम् । एतदेव स्वयं स्पष्टीकरोति मूले "मित्रातनयत्वावच्छिन्नश्यामत्वस्ये" त्यादिना । सामानाधिकरण्येन मिन्नातनयत्वावछिन्नश्यामत्वस्य व्यापकं शाकपाकजन्यत्वम् , तादास्म्येन मित्रातनयत्वावच्छिन्नमित्रातनयत्वरूपसाधनस्याव्यापकन्चेति नैवाव्याप्तिः । एवमेव "एवं पक्षधर्मबहि द्रव्यत्वावछिन्ने" त्यादावपि परिहारप्रकारो बोध्यः । शुद्धसाध्यव्यापकस्थले तु नाव्याप्तिलेशोऽपि । तथाहि-'धूमवान्वन्हे" रित्यत्र “आतेन्धनसंयोग" उपाधिः । कथमिति चेत् ? उच्यते-आर्द्रधनसंयोगो हि “यत्र यत्र धूमस्तत्र तत्रा.न्धनसंयोग" इति साध्यस्य व्यापको भूत्वापि “यत्र यत्र वह्निः तत्र तत्रान्दैन्धनसंयोग" इति साधनसहचारन्यभिचारी भवति तप्तायःपिण्डे वह्निसत्वपि आनॆन्धनसंयोगाभावात् । ___ सर्वश्वायमुपाधिः साध्यसमव्याप्तः । कदाचित् कुत्रचित्साध्यादाधकदेशवृत्तितया विषमव्याप्तोऽपि भवति । " यत्र यत्र धूमस्तत्र तत्र श्रादे॒न्धनसंयोगः यत्र यत्र श्राद्रेन्धनसंयोगः तत्र तत्र धूम" इति साध्यसमव्याप्तः । “भावत्व" चोपाधिषिमन्याप्तः । एवं यथायथमूह्यम्। ___ उपाधिस्थलवैशथायाह-"सद्धतावि"ति । “वह्निमान् धूमात्" इत्यादिसद्धेतावित्यर्थः । स्पष्टमन्यत् । “व्यभिचारिणि त्वि"ति-'धूमवान् वह्ने" रित्यादौ उपाध्यधिकरणं = पर्वतमहानसादि यत् साध्याधिकरणं = धूमादेरधिकरणं, यच्चोपाधिशून्यं = आन्धनसंयोगरूपोपाधिरहितं अयोगोलकादि, साध्यव्यभिचाराधिकरणं = साध्यस्य धूमादेयोंहेतुना वन्ह्यादिना सह व्यभिचारः अर्थात् साध्यं विहायापि वन्ह्यादेरयोगोलकादाववस्थितिः तदन्यतरावच्छिन्नस्य साध्य स्य = पर्वतायोगोलका. न्यतरस्वविशिष्टस्य धूमादेः साध्यस्य, व्यापकत्वं = साध्यसमानाधिकरणात्यन्ताभावाप्रतियोगित्वं, साधनस्य = वन्ह्यादेश्च अव्यापकत्वं = साधनवन्निष्ठात्यन्ताभावप्रतियो. गित्वं, अन्ततः = तादृशधर्मान्तरस्यास्फूतौ उपाधेः सम्भवतीत्यत एवैतादृश उपाधिः "शुद्धसाध्यव्यापक" इति उच्यत इति शेषः ।
इदन्तु बोध्यम्-यत्र यत्रोपाधिरापतेत् तत्र सर्वत्र तत्परिशुद्ध्यर्थमुपाधिव्य. तिरेकेण साध्यन्यतिरेकोऽनुमातव्यः । तस्मिन्ननुमीयमाने चेत् पुनरपि कश्चिदुपाधिराग