________________
४२२ सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावश्या: गुणमन्ये भावादिति सत्प्रतिपक्षसम्भवात् । इत्थं च साधनव्यापकोऽपि कचिदुपाधिः। यथा कारका पृथिवी कठिनसंयोगववादित्यादावनुष्णाशीतस्पशवस्वम् । न चात्र स्वरूपासिद्धिरेव दूषणमिति वाच्यम्, सर्वत्रोपाधेर्दूषणान्तरसाकर्यात् । अत्र च साध्यव्यापकः पक्षावृत्तिरुपाधिरित्याहुः ॥
(प्र० टी० ) उपाधिफलमाह-कारिकायां 'व्यभिचारस्ये"ति । तद्विवृणोति -मुक्तावल्या "उपाधिव्यभिचारणे"ति । यथा चैतत्तथा घटयित्वा दर्शयितुमाह -"यो"ति । उदाहरति-"यथे"ति । नियमशरीरमाह-"व्यापकव्यभिचारिण"इति । शुद्धसाध्यव्यापकोपाधेः फलं दर्शयित्वा धर्मान्तरावच्छिन्नसाध्यव्यापकोपाधिव्यभिचारद्वारा साध्यन्यभिचारप्रकारं प्रतिजानीते-“यत्रत्वि"ति । उदाहरणेन दर्शयति-"यथे"ति। "मित्रातनयत्वादि"ति-मित्रानाम्री काचिद् योषिदासीत् तस्यां विपत्पातादुत्तमाहारालाभेन शाकाद्याहारपरिणतिवशात् सप्त सुता: श्यामवर्णाः सञाताः पश्चात्सुदिष्टोदये सम्पदुपगमादुत्तमाहारलाभेन अष्टमो गौरवर्णः पुत्र उत्पनः । तस्मिशाकपाकजस्वाभावात् साधनाव्यापकत्वं सुस्पष्टमेवेति । अनया रीत्याऽन्यत्रापि बोध्यम्।
नन्वनुमानमप्रमाणं सर्वत्र "परेतरत्व" रूपोपाधेः सत्त्वात् । तथाहि-पक्ष साध्यसन्देहात् पक्षातिरिक्त सर्वत्र साध्यव्यापकत्वस्य सत्त्वाचेत्याशङ्कायां सिद्धान्तमाह
-"बाधानुन्नीते"ति । बाधदोषासहकृतपत्रेतरत्वरूपधर्मस्य तु न क्वचिदप्युपाधित्वम् । तत्र हेतुमाह"साध्यव्यापकते"ति । अयं भावः-यधर्मावच्छिन्नपदेन पक्षमात्रवृत्तिपर्वतत्वादीनां ग्रहणं स्यात् परन्तेषां पर्वतेतरत्वादिसामानाधिकरण्यं नास्ति तस्मान्न पक्षेतरत्वमुपाधिः । हेत्वन्तरमाह-"स्वव्याघातकत्वादि"ति उपाधिमात्रस्य दूषकत्वम्याघातकत्वादिस्यर्थः । पक्षेतरत्वस्योपाधित्वे सर्वत्रानुमाने पक्षे. तरवस्योपाधेः सम्भवादनुमानमात्रोच्छेदापत्त्या व्यभिचारानुमानाधीनस्योपाधेर्दूषकस्वासम्भवादिति भावः । ... ननु-यन्त्र साध्यव्यापकताग्राहकं प्रमाणमस्ति तत्र पक्षतरत्वे लक्षणातिव्याप्तिदुर्वारेत्यत पाह-बाधोनीतस्त्वि"ति । बाधेन पक्षे साध्याभाववत्तया उन्नीतः साध्यब्यापकत्वेन निश्चित इत्यर्थः । उदाहरति-"यथेति । "वन्हिरनुष्ण" इति। बाधस्थलमेतदिति ततोऽत्र वन्हीतरत्वस्योपाधित्वे न दोषः । सन्दिग्धोपाधिमाह"सन्दिग्धोपाधि"रिति । पक्षे साध्यसन्देहेन साध्यव्यापकतासन्देहस्य पक्षेतरत्वे सम्भवादितिभावः । “पक्षतरस्त्वि"ति-पक्षतरे सन्दिग्धोपाधिमुद्भावयन्तौ वादि. प्रतिवादिनाधुभावपि निगृहीतौ मन्तव्याविति भावः । किमन्न बीजमित्यत पाह"कथके"ति।
सत्प्रतिपक्षोन्नायकत्वेनोपार्दूषकतावादिनां मतमाह- केचित्वि"ति । यथा चैतत्तथा दर्शयति-"तथाही"त्यादिना । स्पष्टम् "इत्थञ्चेति । सत्प्रतिपक्षो