________________
उपाधिप्रयोजनम् । (का०) व्यभिचारस्यानुमानमुपाधेस्तु प्रयोजनम् ।
(मु०) उपाधेर्दूषकताबीजमाह-व्यभिचारस्येति । उपाधिव्यभिधारेण हेतौ साध्यव्यभिचारानुमानमुपाधेः प्रयोजनमित्यर्थः । तथाहि । यत्र शुद्धसाध्यव्यापक उपाधिस्तत्र शुद्धनैव उपाधिव्यभिचारेण साध्यव्यभिचारानुमामम् । यथा धूमवान् वह्नरित्यादौ वह्निधूमव्यभिचारी, तद्वयापकान्धनसंयोगव्यभिचारित्वादिति । व्यापकव्यभिचारिणो व्याप्यव्यभिचारावश्यकत्वात् । यत्र तु किश्चिद्धर्मावच्छिन्नसाध्यव्यापक उपाधिस्तत्र तद्धर्मवति उपाधिव्यभिचारण साध्यव्यभिचारानुमानम् । यथा स श्यामो मित्रातनयत्वादित्यादौ मित्रातनयत्वं श्यामत्वव्यभिचारि, मित्रातनये शाकपाकजत्वव्यभिचारित्वादिति । बाधानुन्नीतपक्षतरस्तु साध्यव्यापकताप्राहकप्रमाणाभावात्स्वव्याघातकत्वाच्च नोपाधिः । बाघोनीतस्तूपाधिर्भवत्येव । यथा वन्हिरनुष्णः कृतकत्वादित्यादौ प्रत्य- . क्षेण वह्नावुष्णत्वग्रहे वन्हीतरत्वमुपाधिः । यत्र तूपाधेः साध्यव्यापकता सन्दिह्यते स सन्दिग्धोपाधिः। पक्षेतुरस्तु सन्दिग्धोपाधिरपि नोगावनीयः कथकसम्प्रदायानुरोधान् । केचित्तु सत्प्रतिपक्षात्थापनमुपाधिफलम् । तथाहि । अयोगोलकं धूमवद्वह्नरित्यादावयोगालकं धूमाभाववदाइँन्धना
साध्यसाधनसम्बन्धाभावोस्ति । अत एव साधनावच्छिन्नादौ साधनव्यापकोऽप्युपाधि: यत्र पक्षावृत्तिहेतुः । यथा-"कारका पृथिवी कठिनसंयोगवत्त्वात्" इत्यत्रानुष्णशीतस्पर्शवत्वमुपाधिः । नच स्वरूपासिद्धिरेव तत्र दोषः, सर्वत्रोपाधेर्दूषणन्तरसङ्करात् । एतेन बाधानुन्नीतपक्षतरत्वस्यो. पाधित्वं निरस्तम् , स्वव्याघातकत्वेन तव्यतिरेकस्य साध्याव्यावर्तकत्वादिति कुसुमाञ्जलि. प्रकाशः । अत एव कुसुमाजलावपि तृतीयस्तबके "तद्धर्मभूता हि व्याप्तिर्जवाकुसुमरक्ततेक स्फटिके साधनाभिमते चकास्तीपात्युधिरसावुच्यते । तदिदमाहु:
अन्ये परप्रयुक्तानां व्याप्तीनामुपजीवकाः ।
तैईटैरपि नैवेष्टा ब्यापकांशावधारणा ॥ इति । एवञ्च "तद्धर्मे"त्यादिना भाचार्येणोपाधेरन्वर्थत्वमुक्तम् । यद्धोऽन्यत्र भासते स एवोपाधिपदवाच्या भवति, यथा जवाकुसुमं ( लौहित्यं ) स्फटिके । तथा यद्वृत्तिव्याप्यत्वं साधनत्वाभि. मते भासते स धर्मस्तत्र हेतावुपाधिरिति समव्याप्ते उपाधिपदं मुख्यं विषमव्याप्ते तु साध्यन्यापकत्वादिगुणयोगाद्गाणमित्यर्थः। 'अन्येत्वि"ति कारिकाया: “ये सोपाधयस्ते परप्रयुक्तानामुपा. धिप्रयुक्तानां व्याप्तीनामुपजीवकाः, तैः सोपाधिमिर्हेतुभिः पक्षे निश्चितैरपि न साध्यव्यापकस्य सिदिरित्यर्थसारः।