________________
प्रमाणवादे वैशेषिकमतखण्डनम् ।
त्थापकतया दूषकत्वे चेत्यर्थः । साधनव्यापक मुपाधिमुदाहरति - "यथा करके " ति । यत्र यत्र कठिनसंयोगत्वं तत्र तत्र श्रनुष्णाशीतस्पर्शवत्त्वं यथा पाषाणादावित्य स्ति साधनव्यापकता । विरोधिहेतोरुत्थापकत्वे सत्येवोपाधेर्दूषकतायां "कारका पृथिवीत्वाभाववती कठिनसंयोगव्यापकीभूतानुष्णाशीतस्पर्शवत्त्वाभावादिति सत्प्रतिपक्षीत्थापकत्वं यदा तदैवानुष्णाशीतस्पर्शवत्त्वस्य उपाधित्वं भवितुमर्हतीति भावः । शङ्कते - "नचे" ति । करकायां कठिनसंयोगवत्त्वस्याभावात्स्वरूपासिद्धिरेव किमुपाधिकथनेनेति भावः । समाधत्ते - " सर्वत्रे " ति । “पक्षावृत्ति" रिति - पत्तवृत्तित्वे तु * पक्षे तदभावेन साध्याभावासाधनादिति भावः ।
(का० ) शब्दो पमानयोर्नैव पृथक्प्रामाण्यमिष्यते ॥ १४० ॥
४२३
श्रनुमानगतार्थत्वादिति वैशेषिकं मतम् ।
तन सम्यग्विना व्याप्तिबोधं शब्दादिबोधतः ॥ १४१ ॥
"
( प्र० टी० ) प्रमाणं प्रत्यक्षादिभेदाच्चतुर्विधमित्युक्रं तत्र वैशेषिकमतमपाकर्सुमुत्थापयति- " शब्दोपमानयोरिति । प्रत्यक्षानुमाने द्वे एव प्रमाणे शब्दोपमानयोस्तु पृथक् प्रामाण्यं=प्रमाणान्तरत्वं, नैवेष्यते = निश्चयेन न स्वीक्रियतेऽस्माभिरित्यर्थः । तत्र हेतुमाह – “ अनुमानगतार्थत्वादि"ति अनुमानप्रमाणान्तर्भावादिति वैशेषिकमतम्, । तन्न सम्यक् = युक्तियुक्तं नास्ति, व्याप्तिबोधम् = व्याप्तिज्ञानं विना शब्दादिबोधतः = शब्दमात्रज्ञानात् । आदिना सादृश्यमान्रज्ञानादुपमानप्रमाणस्य सिद्धेः सम्भवादित्यर्थः ।
( मु० ) शब्देोपमानयोरिति । वैशेषिकाणां मते प्रत्यक्षमनुमानं च प्रमाणम् । शब्दोपमानयोस्त्वनुमानविधयैव प्रामाण्यम् । तथा हि । दण्डेन गामानयेत्यादिलौकिक पदानि यजेतेत्यादिवैदिकपदानि वा तात्पर्यविषयस्मारित पदार्थ संसर्गप्रमापूर्व काणि आकाङ्क्षादिमत्पदकदम्बत्वाद् घटमानयेति पदकदम्बवत् । यद्वा एते पदार्था मिथः संसर्गवन्तो योग्यतादिमत्पदोपस्थापितत्वात् तादृशपदार्थवत् । दृष्टान्तेऽपि दृष्टान्तान्तरेण साध्यसिद्धिरिति । एवं गवयव्यक्तिप्रत्यज्ञानन्तरं गवयपदं गवयत्वप्रवृत्तिनिमित्तकम्, असति वृध्यन्तरे वृद्धैस्तत्र प्रयुज्यमानत्वात् । असति च वृत्यन्तरे वृद्धैर्यत्र यत्प्रयुज्यते तत्र तत्तत्प्रवृत्तिनिमित्तकम् । यथा गोपदं गोरखप्रवृत्तिनिमित्तकम् । यद्वा गवयपदं सप्रवृत्तिनिमित्तिकं साधुपदत्वादित्यनुमानेन पक्षधर्मतावलाद्गवयत्वप्रवृत्तिनिमित्तकत्वं सिद्ध
* पक्षे =करकायाम् । तदभावेन = मनुष्णाशीतस्पर्शवत्वाभावेन स्तध्याभावस्य = पृथिवीत्वाभावस्य असाधनात् । हेतोरुपाध्यभावस्य पक्षेवृत्तित्वादिति पक्षावृत्तित्वस्वकारः ।