Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas

View full book text
Previous | Next

Page 430
________________ ४०२ सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावस्याः [गुणग्रन्थे ति । यथा प्रत्यक्षादिप्रमायाः चतुरादि करणं तथा स्मृतिरूपायाः प्रमाया अपि पूर्वानुभव: संस्कारो वा करणान्तरं कल्प्यमिति भावः । श्राक्षेप्तुराशयं ज्ञात्वा सिद्धान्ती रहस्यं प्रकटयितुमाह-"ने"ति । "यथार्थानुभवे"ति--यथार्थानुभव: प्रमा, प्रमाकरणञ्च प्रमाणमित्याचक्ष्महे । स्मृति यथार्थानुभवस्वरूपा तस्मान्न तस्याः करथान्तरम् । किन्तु प्रमासंस्कारजन्या सा यथार्था । अप्रमासंस्कारजन्या सा अयथा. थैति व्यवहियते । अन्यत्स्मृतिग्रन्थेऽधस्तादवोचाम। स्थलान्तरे उलप्रमालक्षणातिव्याप्तिं शङ्कमानस्तद्वारणाय रहस्यमुपदिशन्नाह -"इदन्त्वि"ति । यस्य पदार्थस्य येन सम्बन्धेन = यत्सम्बन्धावच्छेदेन, यद्ध. भवत्ता = यद्धनिष्ठाधेयतानिरूपिताधिकरणत्ववत्ता भासते, तेनैव सम्बन्धेन = तत्सम्बन्धावच्छेदेनैव, तद्वद्विशेष्यकत्वं तथा तत्प्रकारकत्वञ्च प्रमालक्षणे बोध्यम् । "एवं सती"ति । एवं सति “संयोगेन कपालवन्तौ घटा" वित्याकारकभ्रमज्ञाने प्रमालक्षणस्य नातिव्याप्तिः । तत्र समवायसम्बन्धस्यैव तद्धर्मवत्तावच्छेदकत्वादिति भावः । ___ अथ निर्विकल्पकं निष्पकारकं ज्ञानं कथं प्रमा ? तस्याः सप्रकारकत्वनियमादत आह-परमम्ले “न प्रमे"ति । तद्वयाख्यया स्पष्टीकरोति-मुक्तावल्याम् "एवं सती" त्यादिना । प्रकारतादिशून्यं विशेषणविशेष्यभावरहितं, सम्बन्धानव. गाहि संयोगाद्यपरामार्श च निर्विकल्पकमिति तत्रालच्यत्वान्नाव्याप्तिसम्भावनापीति भावः। ___ प्रासङ्गिकं शङ्कते-"नन्वि"ति । "वृक्षः कपिसंयोगी" इत्याकारकं ज्ञानं प्रमापि स्याद् भ्रमोऽपि स्यात् शाखावच्छेन कपिसंयोगस्य सत्त्वान्मूलावच्छेदेन तदभावस्थापि विद्यमानत्वादिति शङ्कार्थः। समाधत्ते-“ने"ति । विरुद्धमधिकरणं व्यधिकरणं, प्रतियोगिनो व्यधिकरणं यस्य सः प्रतियोगिव्यधिकरणः सचासौ संयोगः यदि तदभाववति संयोगज्ञानं तदा तद्रमरूपं नान्यथेति उत्तरार्थः । पुनः शङ्कते-"नच वृक्ष" इति । मूलावच्छेदेन संयोगाभाववति संयोगज्ञानं भ्रमो न स्यात् तस्य = संयोगाभावस्य प्रतियोगिनः संयोगस्य समानाधिकरणत्वादिति शङ्कार्थः । इष्टापत्त्या परिहरति-"तो"ति । मूले कपिसंयोगज्ञानं भ्रम इती. प्यत एवेति भावः । नन्वेवं प्रमालक्षणाननुगमः स्यादत श्राह-“लक्ष्यस्ये"ति। यदस्माकं लक्ष्यमेव नास्ति तत्र यदि लक्षणमसङ्गतं, तदा नास्ति कश्चिद्दोष इति भावः। एतादृशस्थलन्तु-सामान्यलक्षणलक्ष्यमेव नास्तीति, किन्तु एतादृशस्थलाथ प्रतियोगिव्यधिकरणाद्यघटितं विशेषलक्षणम् । तच्चेत्थम् -मूलावच्छेदेन ( संयोगाभावावच्छेदेन ) संयोगाभाववति संयोगज्ञानं भ्रम इति स्वामिनः । (का०) प्रमात्वं न स्वतो ग्राह्यं संशयानुपपत्तितः ॥१३६॥ (मु०) प्रमात्वमिति । मीमांसका हि प्रमात्वं स्वतो ग्राह्यमिति

Loading...

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486