Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas

View full book text
Previous | Next

Page 433
________________ स्वतः परतः प्रामाण्यवादः । ४०२ प्रमात्वस्य स्वतोग्राह्यत्वात् । ( प्र० टी० ) शङ्कते - "नचे" ति । "इदं ज्ञानं प्रमा" इति प्रतिज्ञायां साध्यं यत्प्रमात्वं तस्य कुत्र पूर्वं प्रसिद्धिरिति भावः । समाधत्ते – “ इदमिति । इदन्ताज्ञाने " इदमनिदं वा" इत्याकारकः सन्देहः कदापि नोद्भवति श्रत "इदंज्ञानप्रमात्वं " स्वतग्राह्यमेवेति भावः । ( मु० ) नव प्रकारभेदेन प्रामाण्यभेदात् घटत्वप्रकारकत्वादेः कथं प्रसिद्धिरिति वाच्यम्, घटत्वप्रकारत्वस्य स्वविशेष्यकत्वस्य च खतोग्राह्यः त्वात् । घटस्य च पूर्वमुपस्थितत्वात् घटविशेष्यकं घटत्वप्रकारकमिति ज्ञाने प्रामाण्यस्य बाधकाभावः । व्यवसायपरन्तु प्रामाण्यं न गृह्यते तत्र संशयसामग्रीसत्त्वे संशयस्यैवोपपत्तेः । ( प्र० टी० ) स्वतस्त्ववादी प्रकारान्तरेण शङ्कते - "नच प्रकारभेदेने 'ति । पूकारभेदेन = विशेषणभेदेन धर्मभेदेनेति यावत् । घटत्वप्रकारकत्वादेः = घटत्वप्रकारावगाहिज्ञाननिष्ठधर्मस्येत्यर्थः । परतस्त्ववादी समाधत्ते - " घटत्वे 'ति । स्पष्टं पूर्व म्याख्यातप्रायञ्च । अत्र युक्तिमाह - "घटस्य चे" ति । " घटविशेष्य के " ति - घटनिष्ठविशेष्यतावगाहिज्ञाननिष्ठप्रमात्वग्रहे घटत्वनिष्ठप्रकारतावगाहिज्ञाननिष्ठप्रमात्वग्रहे च न किञ्चिद्वाधकं पश्याम इति भावः । विशकलितविशेष्यविशेषणावगाहिज्ञानगतप्रमात्वधर्मस्य स्वत एव ग्रहणं मन्यामहे, न तत्र विवदामहे, किन्तु विशेष्यविशेषणोभयविशिष्टावगाहिज्ञाननिष्ठं प्रमात्वं न स्वतो गृह्यते । अत्र हेतुमाह - " संशयसामग्रीसत्त्व" इति । तथा च - घटत्ववद्विशेष्यकं घटत्वप्रकारकत्वरूपव्यवसायज्ञाने प्रमात्वसंशयसामग्रीसच्चे संशयोपपत्तेरतस्तादृशसंशयानुपपत्त्या विशिष्ट ज्ञाने प्रमात्वमनुमेयमिति भावः । [मु०] किञ्चाभ्यासदशायां तृतीयानुव्यवसायादिना प्रामाण्यस्य स्वत एव ग्रहसम्भवात् प्रथमानुव्यवसायपरं न तदूग्राहकमिति कल्प्यते संशयानुरोधात् । ( प्र० टी० ) स्वसिद्धान्तं प्रकारान्तरेण स्पष्टीकरोति परतस्त्ववादी -"किञ्चे" ति । स्पष्टम् । ( मु० ) अथ प्रामाण्यानुमितौ प्रामाण्यग्रहेण तस्या विषयनिश्च यरूपत्वार्थं तत्र प्रामाण्यग्रहो वाच्यः, सोप्यनुमित्यन्तरेणेति फलमुखी कारणमुखी वानवस्थेति चेत् १ - ( प्र० टी० ) स्वतस्ववादी परतस्ववादिनो मते अमवस्थामुद्भावयति – “अथे"ति । अस्यायमाशय: -- प्रमात्वग्रहोऽनुमानेनेति ते मतम् । तत्र प्रथमानुमितौ अर्थात् प्रथमप्रामाण्यानुमितौ प्रमात्वग्रहाय द्वितीयानुमित्यपेक्षा, तत्रापि तृतीयानुमित्यपेक्षा,

Loading...

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486