________________
स्वतः परतः प्रामाण्यवादः ।
४०२
प्रमात्वस्य स्वतोग्राह्यत्वात् ।
( प्र० टी० ) शङ्कते - "नचे" ति । "इदं ज्ञानं प्रमा" इति प्रतिज्ञायां साध्यं यत्प्रमात्वं तस्य कुत्र पूर्वं प्रसिद्धिरिति भावः । समाधत्ते – “ इदमिति । इदन्ताज्ञाने " इदमनिदं वा" इत्याकारकः सन्देहः कदापि नोद्भवति श्रत "इदंज्ञानप्रमात्वं " स्वतग्राह्यमेवेति भावः ।
( मु० ) नव प्रकारभेदेन प्रामाण्यभेदात् घटत्वप्रकारकत्वादेः कथं प्रसिद्धिरिति वाच्यम्, घटत्वप्रकारत्वस्य स्वविशेष्यकत्वस्य च खतोग्राह्यः त्वात् । घटस्य च पूर्वमुपस्थितत्वात् घटविशेष्यकं घटत्वप्रकारकमिति ज्ञाने प्रामाण्यस्य बाधकाभावः । व्यवसायपरन्तु प्रामाण्यं न गृह्यते तत्र संशयसामग्रीसत्त्वे संशयस्यैवोपपत्तेः ।
( प्र० टी० ) स्वतस्त्ववादी प्रकारान्तरेण शङ्कते - "नच प्रकारभेदेने 'ति । पूकारभेदेन = विशेषणभेदेन धर्मभेदेनेति यावत् । घटत्वप्रकारकत्वादेः = घटत्वप्रकारावगाहिज्ञाननिष्ठधर्मस्येत्यर्थः । परतस्त्ववादी समाधत्ते - " घटत्वे 'ति । स्पष्टं पूर्व म्याख्यातप्रायञ्च । अत्र युक्तिमाह - "घटस्य चे" ति । " घटविशेष्य के " ति - घटनिष्ठविशेष्यतावगाहिज्ञाननिष्ठप्रमात्वग्रहे घटत्वनिष्ठप्रकारतावगाहिज्ञाननिष्ठप्रमात्वग्रहे च न किञ्चिद्वाधकं पश्याम इति भावः ।
विशकलितविशेष्यविशेषणावगाहिज्ञानगतप्रमात्वधर्मस्य स्वत एव ग्रहणं मन्यामहे, न तत्र विवदामहे, किन्तु विशेष्यविशेषणोभयविशिष्टावगाहिज्ञाननिष्ठं प्रमात्वं न स्वतो गृह्यते । अत्र हेतुमाह - " संशयसामग्रीसत्त्व" इति । तथा च - घटत्ववद्विशेष्यकं घटत्वप्रकारकत्वरूपव्यवसायज्ञाने प्रमात्वसंशयसामग्रीसच्चे संशयोपपत्तेरतस्तादृशसंशयानुपपत्त्या विशिष्ट ज्ञाने प्रमात्वमनुमेयमिति भावः ।
[मु०] किञ्चाभ्यासदशायां तृतीयानुव्यवसायादिना प्रामाण्यस्य स्वत एव ग्रहसम्भवात् प्रथमानुव्यवसायपरं न तदूग्राहकमिति कल्प्यते संशयानुरोधात् ।
( प्र० टी० ) स्वसिद्धान्तं प्रकारान्तरेण स्पष्टीकरोति परतस्त्ववादी -"किञ्चे" ति । स्पष्टम् ।
( मु० ) अथ प्रामाण्यानुमितौ प्रामाण्यग्रहेण तस्या विषयनिश्च यरूपत्वार्थं तत्र प्रामाण्यग्रहो वाच्यः, सोप्यनुमित्यन्तरेणेति फलमुखी कारणमुखी वानवस्थेति चेत् १ -
( प्र० टी० ) स्वतस्ववादी परतस्ववादिनो मते अमवस्थामुद्भावयति – “अथे"ति । अस्यायमाशय: -- प्रमात्वग्रहोऽनुमानेनेति ते मतम् । तत्र प्रथमानुमितौ अर्थात् प्रथमप्रामाण्यानुमितौ प्रमात्वग्रहाय द्वितीयानुमित्यपेक्षा, तत्रापि तृतीयानुमित्यपेक्षा,