________________
४०६
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[गुणप्रन्ये
एवमुत्तरोत्तरं फलमुखी = प्रमावग्रहफलप्रधाना। कारणमुखी प्रथमानुमितिज्ञानरूपकारणपुष्टयै द्वितीयानुमितिकारणापेक्षा, एवं द्वितीयानुमितिज्ञानकारणसिद्धौ तृतीयानुमितिज्ञानकारणापेक्षेत्येवमनुमितिज्ञानात्मककारणप्रधाना अनवस्थैवापतेत, नत्वेवं स्वतोग्रहवादे दोष इति।।
(मु०) न, अगृहीताप्रामाण्यग्रहकस्यैव निश्चयरूपत्वात् । यत्र च प्रामाण्यसंशयस्तत्रैव परं प्रामाण्यानुमितेरपेक्षा, यावदाशङ्क प्रामाण्यानुमितिरिष्यत एव ।
(प्र० टी ) परतोग्रहवादी समाधत्ते-“ने"ति । नैवानवस्थेत्यर्थः । तत्र हेतुमाह-"अगृहीते"ति । " इदं ज्ञानमप्रमा" इत्याकारकोऽप्रमात्वग्रहो यत्र न जातः तदेव ज्ञानं निश्चयरूपं मन्यामहे, यन्त्र ज्ञाननिष्ठप्रमात्वस्य संशयः तत्रैव प्रामाण्यग्राहकानुमितिसामग्र्यपेक्षा नवन्यत्र । यावदाशङ्कमनुमितिरिष्टा * "शङ्काचेदनुमा
___ * शङ्काचेदनुमास्त्येव नचेच्छङ्का ततस्तराम् । ___ व्याघातावधिराशङ्का तर्कः शङ्कावधिर्मतः॥
(कुसु० ३ ये स्तवके, ७मी० का० ) मस्यायमारायः-यधनुपलम्भमात्रं नाभावं साधयेत् , तदा अयोग्योपाधिशङ्कया धूमादावपि व्यभिचारशका समुन्मिषेत् अर्थात् भविष्यति कश्चिद्धहिधूमव्यभिचारी विशिष्य सकलवह्निव्यक्तीनां ज्ञातुमशक्यत्वात्, तथाच तस्यां शङ्कायां विद्यमानायां न स्याद्वयाप्तिनिश्चय इति गतमनुमानेन इत्याक्षेपे सत्याह-"शङ्काचे"दिति । यदि तद्देशतत्कालयोंव्यभिचाराभावनिश्चयात् कालान्तरस्थदेशान्तरस्थयोर्वन्हिधूमयोर्व्यभिचारशका स्यात् तदा कालान्तरदेशान्तरस्थज्ञानमनुमानादेवेति सिद्धमनुमानम । “शङ्का न चेत् "ततः शङ्काया अभावे तराम सुतरामनुमानं जातमेव, तदा वहिधूमयोः प्रत्यक्षाभावात् शङ्कानिवृत्तेश्च प्रमाणान्तरानपनोद्यत्वे सति अनु मानकापनोधत्वात् , अर्थात् विपक्षबाधकतर्केण शङ्कावा निबर्त्यत्वात् । नच तर्कस्यापि व्याप्तिमूलकत्वेनानवस्था स्यादिति वाच्यम् यतो "व्याघालावधिराशङ्का" व्याघातात्मकस्तर्क एव शङ्काया अवधिः तत उत्तरं शङ्काविरहदर्शनात् । अयं भाव:-तर्कमूलव्याप्तौ न शङ्का व्याघा. तात् । क्लुप्तकारणं विनाऽपि यदि कार्यमाशङ्क्यते तदा तृप्त्यर्थ भोजनादौ परप्रत्ययजननार्थ च शब्दप्रयोगादौ कोऽपि न प्रवर्तत । एवञ्च तर्कानबतारे शङ्कितोपिधिरेवाप्रयोजक इत्युच्यते । तदुक्तम्
यावच्चाव्यतिरेकित्वं शतांशेनापि शक्यते।
विपक्षस्य कुतस्तावद्धतोर्गमनिकाबलम् ॥ विस्तरस्तु कुसुमाजल्यादौ द्रव्यष्टः । शतांशेनापि येनकेनापि साधारणधर्मदर्शनादिना अनुत्कटापि यावच्छका स्यादित्यर्थः । विपक्षे हेतोरव्यतिरेकित्वम् सत्त्वं यावच्छक्यते न तावद्धतोमिकत्वमिति भावः ।