________________
स्वतः परतः प्रामाण्यवादः ।
४०७
स्त्येव " इत्याचार्योक्तेः । तस्मान्नानवस्थासम्भावना अन्ततः क्वचिन्निश्चयसत्वात् । ( मु० ) सर्वत्र तु न संशयः । कचित्कोट्यनुपस्थितेः क्वचिद्विशेषदर्शनादितः कचिद्विषयान्तरसञ्चारादिति सङ्क्षेपः ।
,
( प्र० टी० ) स्वोक्तार्थी युक्तिमाह सिद्धान्ती - " सर्वत्रे "ति । " परस्परविरुद्धनानाधर्मावगाहि ज्ञानं संशय " इत्यवोचाम । यत्र तु विरोधिधर्मोपस्थितिर्नास्नि, न तत्र संचयः । यत्र विषयस्य स्थाण्वादेर्विशेषदर्शनं नाम स्थाणुत्वादिज्ञानं जातं तत्रापि न संशयः । क्वचित् विषयान्तरे = अर्थात् एकविषयक ज्ञानानन्तरं चिप्रमेव ज्ञानसन्ततेः तदन्यविषये सञ्चारो जातस्तत्रापि न संशयः । एवमनेकत्र संशयाभावसत्त्वात् उक्तरीत्याऽनवस्थोद्भावनं वादिनः साहसमात्रमेवेति भावः ।
अयमत्र प्रामाण्यवादस्य सरलसङ्ग्रहः
प्रत्यक्षानुमित्यादियथार्थानुभवात्मकप्रमायां यत्तद्वति तत्प्रकारकज्ञानत्वरूपं प्रमात्वं प्रामाण्यशब्देनापि व्यवह्रियमाणं तत्र मीमांसका बेदान्तिनश्च स्वतस्त्वमभ्युपेयन्ते नैयाविकास्तु परतस्त्वमिति तत्प्रदर्श्यते
तत्र तावत्स्वतत्स्वं द्विविधं उत्पत्तिज्ञप्तिभेदात्, तथैव परतस्त्वम् ।
-
तथाहि- - दोषाभावसहकृतज्ञानसामान्यसामग्रीप्रयोज्यत्वमुत्पत्तिस्वतस्त्वम्, ज्ञानसामन्य सामग्री तु आत्मा, आत्ममनः संयोगः, इन्द्रियमनुमानादिकञ्चेत्यादि । अप्रमायामतिव्याप्तिवारणाय दोषाभावसहकृतेति विशेषणम्, दोषाभावसहकृतयावत्स्वाश्रयग्राह्रकसामग्रीग्राह्यत्वं ज्ञप्तिस्वतस्त्वम् । "स्व" शब्दग्राह्यं प्रमात्वं, तदाश्र यभूतं प्रमाज्ञानं तद्ग्राहिका यावती सामग्री = प्रमात्वाश्रय भूतप्रमाज्ञानविषयिणी यावती दोषाभावसहकृता ज्ञानोत्पादिका सामग्री तद्भाह्यत्वं नाम पूर्वोक्तसामग्रीजन्यज्ञानविषयत्वं प्रमात्वनिष्ठं ज्ञप्तिस्वतस्त्वम् । श्रयं भावः- -दोषाभावसकृतज्ञानसामग्रीजन्यानि यावन्ति ज्ञानानि प्रमात्वाश्रयभूतप्रमाविषयकानि तावन्त्येव प्रमात्वविषकानीत्यपि एतदेव प्रमात्वे "स्वतो ग्राह्यत्वं" तदेव ज्ञप्तिस्वतस्त्वम् ।
यथा दोषवशात् प्रमाज्ञाने "इदं ज्ञानमप्रमा" अथवा " इदं ज्ञानं प्रमा नवे 'ति सम्भावितं विपरीत भावितं वा, तत्र प्रमाज्ञानवृत्ति प्रमात्वे स्वाश्रयग्राहकयावज्ज्ञानग्राहकसामग्रीग्राह्यत्वं नास्ति, किन्तु श्रप्रमात्वविषयकेन संशयनिश्चयसाधारणज्ञानेन प्रमात्वाश्रयभूतं ज्ञानं विषयीक्रियते नतु ज्ञानवृत्तिप्रमात्वमपि । श्रतोऽतिव्याप्तिवारणाय लक्षणे “दोषाभावसद्दकृते 'ति । विशेषणम् । तन्त्र भ्रमसंशयजनक सामग्र्या दोषाभाव सहकृतत्वाभावात् ।
सिद्धसाधनदोषवारणाय लक्षणे " यावत्पद" निवेशः । तथाहि - परतः प्रामायवादिनैयायिकनये प्रामात्वाश्रयविषयकानुमानादिसामग्र्या एव प्रमात्वग्रहः तन्नैयायिकाभिमतार्थसाधनान्मीमांसकानां सिद्धसाधनदोषापत्तिरिति कृत्वा सामग्रीपदस्य =