________________
४०८
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्कावल्या:
[गुणमन्ये
सामग्रीजन्यज्ञानपदस्य यावदितिविशेषणम् । तार्किकनये ऽनुव्यवसायज्ञानं प्रमात्वाश्रयभूतप्रमाज्ञानं विषयीकुर्वदपि प्रमात्वं न विषयीकरोति । एवं तार्किकसिद्धान्ते प्रमात्वनिष्ठं यावत्स्वाश्रयग्राहकसामग्रीग्राह्यत्वं नास्ति तस्मादुक्कदोषोपि नास्त्येव । इथञ्च स्वत:प्रमाण्यवादिनां त्रीणि मतानि । तत्र प्रभाकार:- "घटादिविषये यद्यद्यत्यमारूपं व्यवसायज्ञानं तद् "घटत्वेन घटमहानामि" इत्याकारकं भवति तस्मात्सर्वत्र व्यवसायज्ञाने मितिमातृमेयाकारा त्रिपुटी भासते । व्यवसायज्ञाने मितिः, तदाश्रय आस्मा माता, घटादिकं मेयमिति । इत्थं व्यवसायज्ञानं स्वरूपं विषयीकुर्वत्स्वनिष्ठं प्रमात्वमपि विषयीकरोति तेन प्रमात्वे यावत्स्वाश्रयग्राहकसामग्रीग्राह्यत्वं स्पष्टमेव।
मरारिमिश्रास्तु-"अयं घट" इति व्यवसायज्ञानानन्तरं "घटत्वेन घटमहानामि” इत्याकारकं मानसं प्रत्यक्षमनुव्यवसायात्मकं जायमानं व्यवसायं तवृत्ति प्रमात्वञ्च विषयीकरोतीति स्वतोग्राह्यत्वं सुस्पष्टम् ।
भादास्तु-सर्व ज्ञानमतीद्रियम्, तस्माज्ज्ञानं न प्रत्यक्षं किन्तु "अयं घट" इति ज्ञानान्तरं घटादौ ज्ञेये "ज्ञातताख्यो" धर्म उत्पद्यते तदनन्तरं “ज्ञातो घट" इत्येव. जातीयकं ज्ञातताविषयकं प्रत्यत्तं भवति, ततो ज्ञातताख्याद्धेतोस्तज्ज्ञानमनुमीयते। अनुमानप्रकारश्च यथा-'घटो घटत्ववद्विशेष्यकवटत्वप्रकारकज्ञानविषयो घटत्वप्रकारकज्ञा. ततावत्त्वात् यन्नैवं तन्नैवम् यथाऽप्रमा" इति । तथा चेदमनुमानम् "अयं घट” इतिज्ञानं तवृत्ति प्रमात्वञ्च गृह्णाति तदेव प्रमात्वे यावत्स्वाश्रयग्राहकसामग्रीग्राह्यत्वं स्वतोग्राह्यत्वं नाम । वेदान्तिनस्तु "अयं घट" इत्याकारकं वृत्तिज्ञानमेव प्रमात्वाश्रयभूतं, तद्ग्राहकं तु साक्षिचैतन्यं, तच्च वृतिज्ञानं तन्निष्ठं प्रमात्वं च विषयाकुर्वदेव राजत इति नोतलक्षणासङ्गतिः। ___ अत्र नैयायिकः-प्रमात्वस्य स्वतोग्राह्यत्व नोपपद्यते संशयानुपपत्तेः । यदि तत्स्वतः स्यात्तदाऽनभ्यादशोत्पन्नजलज्ञाने "इदं जलज्ञानं प्रमा नवेति" संशयो न स्यात् । तत्र यदि अनुव्यवसायादिना ज्ञानं ज्ञातं, तदा तेन ज्ञानप्रामाण्यमपि ज्ञातमे. वेति कुतः संशयः ? निश्चयस्य तत्प्रतिबन्धकत्वात् । संशयश्वानभ्यासदशापन्नजाने सर्वा नुभवसिद्धो नापलपितुं शक्यः । एवञ्च 'इदाल" मिति व्यवसायानन्तरं जायमानं "जलमहानामि" इत्यनुव्यवसायज्ञानं विषयीकरोतु नाम ? कुतस्त्यन्तु तस्य तन्निष्टप्रमात्वविषयीकरणम् पूर्वोक्कसंशयानुरोधात् । ततश्च पूर्व जलज्ञानं, ततस्तद्विषयिणी इच्छा, ततो जलप्रवृत्तिः, ततः प्रवृत्या जलप्राप्तिः । एवं संवादिप्रवृत्त्या जलज्ञाननिष्ठं प्रमास्वमनुमीयते । प्रयोगश्च भवति-'पूर्वोत्पन्नं जलज्ञानं प्रमा सफलप्रवृत्तिजनकत्वात् यन्नैवं तन्नैवं यथा शुक्लाविदं रजतमित्यप्रमा'' एवम्प्रकारानुमानेनयाविषयीक्रियते प्रमात्वं तदेव प्रमात्वे परतस्त्वम् (ज्ञप्तिपरतस्त्वम् ) ।