________________
स्वतःपरतःप्रामाण्यवादः।
४०१
___ लक्षणन्तु-'ज्ञानमात्रग्राहकसामग्रीभिन्नसामग्रीग्राह्यत्वं ज्ञाप्तिपरतस्त्वम् । इदं जल" मिति व्यवसायज्ञानविषयकं 'जलमहानामी"ति मानसम्प्रत्यक्षमनुव्यवसायज्ञानम्भवति । तदनुव्यवसायज्ञानमात्मानमपि विषयीकरोति व्यवसायविषयक जलमपि विषयीकरोति, तत्र प्रत्यक्षस्येन्द्रियार्थसन्निकर्षजन्यत्वनियमान्मनोरूपेन्द्रियेण समं तेषां सम्बन्धो वाच्यः। तत्र अात्ममनसोव्यतया "द्रव्ययोरेव संयोग" इति न्यायेन तयोः संयोगः सम्बन्धः, व्यवसायज्ञानेन सह मनसः संयुक्तसमवायः सम्बन्धः, बाह्यपदार्थेन साकं मनसः संयोगादिरूपः लौकिकः सम्बन्धो भवितुं नार्हति तेन तस्य जलविषयेण सह कश्चित्सम्बन्धोवाच्यः, सच "ज्ञानलक्षणाख्यो''ऽलौकिकः । “इदं जल" मित्याकारकं व्यवसायात्मकं ज्ञानमेव बाह्यजलेन मनसः सम्बन्धः इत्यर्थः । नच वाच्यं तद्व्यवसायज्ञानमात्मनि समवायसम्बन्धेन वर्तमानमपि मनसि नैव वर्त्तते तस्य ज्ञानानधिकरणत्वादिति तस्मिज्ज्ञाने मनःसम्बन्धोपि नास्त्येवेति, ज्ञानलक्षणापदेन "स्व संयुक्तसमवेतज्ञानस्यैव" विवक्षितत्वात् । "स्व" शब्दग्राह्यं मनः, तत्संयुक्त प्रात्मा, तत्रात्मनि “इदंजल" मित्याकारकं व्यवसायज्ञानं, तच्च विषयतासम्बन्धेन जलनिष्ठं, समवायसम्बन्धेनात्मनिष्ठं, स्वसंयुक्तसमवेतसम्बन्धेन मनोनिष्ठमपीति भावः । ___अनया रीत्या अनुव्यवसायज्ञानोत्पत्तिहेतुभूता या मनःसंयोगादिरूपा सामग्री सा ज्ञानमात्रग्राहकसामग्रीपदेनाभिलप्यते, तया प्रमात्वं न ज्ञायते, किन्तु तद्भिन्ना याऽनुमानादिरूपा सामग्री तयैव प्रमात्वमनुमीयते, एतदेव प्रमात्वे परतोग्राह्यत्वरूपं ज्ञप्ति. परतस्त्वम् । ज्ञानमात्रग्राहकसामग्रीभिन्नसामग्री “पर” शब्दार्थः ।
ज्ञानमात्रग्राहकसामग्र्यतिरिक्तकारणप्रयोज्यत्वमुत्पत्तिपरतस्त्वम् । तत्र ज्ञानमात्रोत्पादिका सामग्री प्रात्मा, मनःसंयोगः इन्द्रियमनुमानादिकञ्च । यदि ज्ञानमात्रोत्पत्तिहेतुभूतसामग्रीत एव ज्ञाने प्रमात्वं स्यात्, तदा सर्वं ज्ञानम्नमैव स्यात्, इन्द्रियादिसामग्रीतो जायमानमपि “शुक्नाविदं रजत" मिति ज्ञानन्त्वप्रमैव तस्मादुक्सामग्रीभिन्नकारणादेव प्रमात्वमुत्पद्यते । तद्भिन्नकारणञ्च गुणः, तद्गुणजन्यत्वम्प्रमात्वे उत्पत्तिपरतस्त्वम् । तथाचोक्नं परममूले--
प्रत्यक्षे तु विशेष्येण विशेषणवता समम् सन्निकर्षों गुणस्तु स्यादथत्वनुमितौ गुणः । पक्षे साध्यविशिष्टे च परामर्शों गुणो भवेत् ॥ शक्ये सादृश्यबुद्धिस्तु भवेदुपमिती गुणः ।
शाब्दबोधे योग्यतायास्तात्पर्यस्याथवा प्रमा ॥ इति । एवञ्चाप्रामाया अपि द्विविधं परतस्वञ्च बोध्यम् । "दोषोऽप्रमाया जनकः प्रमाया न्तु गुणो भवेद् " इत्युक्तेः । ज्ञानमात्रकारणातिरिक्तदोषरूपकारणप्रयोज्यत्वमप्रमाया मुत्पत्तिपरतस्त्वम् । ज्ञानमात्रग्राहकसामग्रीभिन्नसामग्रीग्राह्यत्वमप्रमायां ज्ञाप्तप