________________
४०४
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावस्याः
[गुणग्रन्थे
नहि निर्विषयं ज्ञानमस्तीति भावः । अत्रानुमानस्यायमाकार:=-ज्ञानं सविषयं भवितुमर्हति प्रकाशकत्वात् दीपवद्" इति ।
(मु०) तन्मतं दूषयति । न स्वतो ग्राह्यमिति । संशयेति । यदि शानस्य प्रामाण्यं स्वतो ग्राह्यं स्यात्तदाऽनभ्यासदशोत्पन्नशाने प्रामाण्य. संशयो न स्यात् । तत्र हि यदि ज्ञानं ज्ञातं तदा त्वन्मते प्रामाण्यं ज्ञातमे. वेति कथं संशयः। यदि तु ज्ञानं न ज्ञातं तदा धर्मिज्ञानाभावात्कथं संशयः । तस्माज्शाने प्रामाण्यमनुमेयम् । तथा हि । इदं ज्ञानं प्रमा संवा. दिप्रवृत्तिजनकत्वात् यन्नैवं यन्नैवं यथाऽप्रमा । इदं पृथिवीत्वप्रकारकं ज्ञानं प्रमा गन्धवति पृथिवीत्वप्रकारकज्ञानत्वात् । एवमिदं जलत्वप्रकारकं ज्ञानं प्रमा स्नेहवति जलत्वप्रकारकज्ञानत्वत् । नच हेतुज्ञानं कथं जातमिति वाच्यम्, पृथिवीत्वप्रकारकत्वस्य स्वतोग्राह्यत्वात् । तत्र गन्धग्रहेण गन्धवद्विशेष्यकत्वस्यापि सुग्रहत्वात् । तत्प्रकारकत्वावच्छिप्रतद्वद्विशष्यकत्वं परं न गृह्यते संशयानुरोधात् ।
(प्र० टी० ) "तन्मतमि"ति--स्वतःप्रामाण्यवादिनां मतं मण्डयतीत्यर्थः । "न *स्वतोग्राह्यमि"ति । तत्र युक्तिमाह--"संशयानुपपत्तित" इति । "अनभ्यासदशोत्पन्ने"ति--अनवरतप्रामाण्यसजातीयेत्यर्थः । ज्ञातमेव निश्चितमेव । “यदि" इत्यारभ्य "संशयः' इत्यन्तग्रन्थस्यायं सारः--यदि ज्ञानप्रामाण्यं स्वतो ग्राह्यं स्यात् तर्हि बालकस्य बाल्ये जलज्ञाने जाते 'ममेदं जातं जलज्ञानं प्रमा नवे"ति संशयो न भवेत, कुतः-तत्र यदि ज्ञानं ज्ञातं तदा तद्गतं प्रामाण्यं सत्यत्वमपि ज्ञातमेव । यदि ज्ञानं नैव ज्ञातं तदापि धर्मिज्ञानाभावान्नैव संशयः, संशये धर्मिज्ञा. नस्य कारणत्वात् , तस्मात्सफलप्रवृत्तिजनकतालिङ्गकानुमानगम्यमेव प्रामाण्यम् । इदमेव प्रामाण्यस्य परतोग्राह्यत्वं नमेत्याशयेनाह-"तस्माज्याने प्रामाण्यमनुमेयमि"ति। धर्मिसामान्यज्ञानोत्तरमेव धर्मसंशयो भवति नान्यथा, तस्माज्ज्ञानप्रामाण्यमनुमानगम्यमेवेत्यर्थः। तत्प्रकारं दर्शयितुमाह--"तथाही"ति । स्पष्टम् । शङ्कते -"नच हेतुज्ञानमि"ति। समाधत्ते-"पृथिवीत्वप्रकारत्वस्ये"ति । पृथिवीस्वप्रकारावगाहिनो ज्ञाननिष्ठधर्मस्य तथा गन्धवद्विशेष्यकत्वावगाहिनो ज्ञाननिष्ठधर्मस्य च कामं भवतु स्वतोग्रह; किन्तु दर्शितरीत्या संशयानुरोधात् पृथिवीत्वप्रकारकत्वावच्छिन्नपृथिवीत्ववद्विशेष्यकत्वस्य धर्मस्य न स्वतोग्रहः । विशकलितयोः विशेष्य विशेषणयो: स्वतोग्रहे नास्ति दोष इत्यर्थः । ___(मु०) नच प्रमात्वस्य साध्यस्य प्रसिद्धिः कथमितिवाच्यम् इदं ज्ञान
* स्वतस्त्वञ्च-स्वाश्रयग्राहकातिरिक्ताग्राह्यत्वम् । स्वतद्वति तत्प्रकारकत्वरूपं प्रमात्वम् , तदाश्रयो ज्ञानम् , तदूग्राहकमनुव्यवसायादि, तदतिरिक्तमनुमानादि, तदग्राह्यत्वं प्रमात्वे ।