________________
स्वतःपरतःप्रामाण्यवादः।
वदन्ति । तत्र गुरूणां तते ज्ञानस्य वप्रकाशत्वात्तज्ज्ञानप्रामाण्यं तेनैव गृह्यते इति । भट्टानां मते ज्ञानमतीन्द्रिवम् । ज्ञानजन्या ज्ञातता प्रत्यक्षा तया च ज्ञानमनुमीयते । मुरारिमिश्राणां मतेऽनुव्यवसायेन ज्ञानं गृह्यते । सर्वेषामपि मते तज्ज्ञानविषयकज्ञानेन तज्ज्ञानप्रामाण्यं गृह्यते । विषयनिरूप्यं हि ज्ञानम् । अतो ज्ञानवित्तिवेद्यो विषयः।
(प्र. टी.) "प्रमात्वं न स्वतो ग्राह्य” मिति मूलेन स्वतोग्राह्यत्वं निषिध्यते तत्र स्वतस्त्ववातिन: के सन्तीत्याकाङ्क्षायामाह-"मीमांसकाही"ति। अत्र त्रयो मीमांसकाः सन्ति । प्राभाकरा: भाट्टाः मुरारिमिश्रमतानुयिनश्च । त्रयाणामपि मते ज्ञानगतं प्रामाण्यम् अर्थात् सत्यत्वं स्वतो गृह्यते इति ते स्वत:प्रामाण्यवादिनो भण्यन्ते । तत्रापि तेषामस्ति किञ्चिद्वैलक्षण्यं तदर्शयति--"गुरुणां मत" इति । गुरुः प्रभाकरः बहुवचनमादरार्थम् । ज्ञानस्य स्वप्रकाशत्वात् स्वविषयकत्वात् , अर्थात् यथा ज्ञानं घटपटाद्यर्थं विषयीकरोति तथैव स्वात्मानमपि प्रकाशयति ( विषयीकरोति) इति तत्त्वात् । ज्ञानप्रामाण्यं = स्वनिष्ठः प्रमात्वधर्मः स्वनिष्ठज्ञानत्वादिवत् तेनैव गृह्यते = स्वनैव प्रकाश्यत इत्यर्थः एतस्मिन्मते सर्वस्मिन्नेव ज्ञाने मितिमातृमेयैतत्त्रयं भासते । तन्मते "घटत्वेन घटमहं जानामि" इत्याकारक एव व्यवसायः सच स्वयप्रकाशः, तेनैव च स्वगतप्रामाण्यग्रह इति भावः ।
भाट्टमतमाह--'भट्टानां मतेत्वि"ति । सर्वं ज्ञानमतीन्द्रियम् = इन्द्रियागोचरः । ज्ञानजन्या ज्ञातता=घटादिविषयनिष्ठो धर्मविशेषः "ज्ञातो घट" इत्याका. रकप्रतीतिसिद्धः, प्रत्यक्षा = इन्द्रियगोचरः, तयाच-ज्ञततयेत्यर्थः, ज्ञानमनुमीयते। अनुमानप्रकारश्च--"इयं घटनिष्ठा ज्ञातता घटत्ववद्विशेष्यकघटत्वप्रकारकज्ञानजन्या घटवृत्तिघटत्वप्रकारकज्ञाततावत्त्वात्"। "या यवृत्तियत्प्रकारिको ज्ञातता सा तद्वद्विशेष्यकतत्प्रकारकज्ञानसाध्या यथा पटे पटत्वप्रकारिका ज्ञाततेति प्रतिबन्धसिद्धिः । एवञ्च ज्ञाततालिङ्गेनानुमानेन ज्ञानं गृहीतं तेनैव तत्प्रामाण्यस्यापि ग्रह इति प्रामाण्यवतस्वम् । मुरारिमिश्रमतमाह-"मुरारिमिश्राणामिति । अस्मिन्मते "अयं घट" इत्याकारकज्ञानानन्तरं "घटस्वेन घटमहं जानामि' इति ज्ञानविषयकमलौकिकभानमनुष्यवसायनामकमुत्पद्यते तेनैव ज्ञानगतप्रामाण्यग्रहः । अन्येषामपि स्वतःप्रामाण्यवादिनां मतं समीकरोति-"सर्वेषामपी"ति । तज्ज्ञानविषयकज्ञानेन-ज्ञानविषयकज्ञानेन अनुव्यवसायात्मकेनेत्यर्थः, तज्ज्ञानप्रामाण्यम् व्यवसायात्मकज्ञाननिष्ठं प्रमावमित्यर्थः। ___ मनु-ज्ञानज्ञानस्य विषयाविषयकत्वात् कथं विषयघटितप्रामाण्यं तस्य विषय इत्यतो ज्ञानज्ञानस्य विषयविषयकत्वे प्रमाणमाह--"विषयनिरूप्यमि"ति । "ज्ञानवित्ती"ति--ज्ञानस्य वित्तिः अर्थात् ज्ञानज्ञानं, तद्वेद्यो घटादिविषयः ।