________________
४०२
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावस्याः
[गुणग्रन्थे
ति । यथा प्रत्यक्षादिप्रमायाः चतुरादि करणं तथा स्मृतिरूपायाः प्रमाया अपि पूर्वानुभव: संस्कारो वा करणान्तरं कल्प्यमिति भावः । श्राक्षेप्तुराशयं ज्ञात्वा सिद्धान्ती रहस्यं प्रकटयितुमाह-"ने"ति । "यथार्थानुभवे"ति--यथार्थानुभव: प्रमा, प्रमाकरणञ्च प्रमाणमित्याचक्ष्महे । स्मृति यथार्थानुभवस्वरूपा तस्मान्न तस्याः करथान्तरम् । किन्तु प्रमासंस्कारजन्या सा यथार्था । अप्रमासंस्कारजन्या सा अयथा. थैति व्यवहियते । अन्यत्स्मृतिग्रन्थेऽधस्तादवोचाम।
स्थलान्तरे उलप्रमालक्षणातिव्याप्तिं शङ्कमानस्तद्वारणाय रहस्यमुपदिशन्नाह -"इदन्त्वि"ति । यस्य पदार्थस्य येन सम्बन्धेन = यत्सम्बन्धावच्छेदेन, यद्ध. भवत्ता = यद्धनिष्ठाधेयतानिरूपिताधिकरणत्ववत्ता भासते, तेनैव सम्बन्धेन = तत्सम्बन्धावच्छेदेनैव, तद्वद्विशेष्यकत्वं तथा तत्प्रकारकत्वञ्च प्रमालक्षणे बोध्यम् । "एवं सती"ति । एवं सति “संयोगेन कपालवन्तौ घटा" वित्याकारकभ्रमज्ञाने प्रमालक्षणस्य नातिव्याप्तिः । तत्र समवायसम्बन्धस्यैव तद्धर्मवत्तावच्छेदकत्वादिति भावः । ___ अथ निर्विकल्पकं निष्पकारकं ज्ञानं कथं प्रमा ? तस्याः सप्रकारकत्वनियमादत आह-परमम्ले “न प्रमे"ति । तद्वयाख्यया स्पष्टीकरोति-मुक्तावल्याम् "एवं सती" त्यादिना । प्रकारतादिशून्यं विशेषणविशेष्यभावरहितं, सम्बन्धानव. गाहि संयोगाद्यपरामार्श च निर्विकल्पकमिति तत्रालच्यत्वान्नाव्याप्तिसम्भावनापीति भावः। ___ प्रासङ्गिकं शङ्कते-"नन्वि"ति । "वृक्षः कपिसंयोगी" इत्याकारकं ज्ञानं प्रमापि स्याद् भ्रमोऽपि स्यात् शाखावच्छेन कपिसंयोगस्य सत्त्वान्मूलावच्छेदेन तदभावस्थापि विद्यमानत्वादिति शङ्कार्थः। समाधत्ते-“ने"ति । विरुद्धमधिकरणं व्यधिकरणं, प्रतियोगिनो व्यधिकरणं यस्य सः प्रतियोगिव्यधिकरणः सचासौ संयोगः यदि तदभाववति संयोगज्ञानं तदा तद्रमरूपं नान्यथेति उत्तरार्थः ।
पुनः शङ्कते-"नच वृक्ष" इति । मूलावच्छेदेन संयोगाभाववति संयोगज्ञानं भ्रमो न स्यात् तस्य = संयोगाभावस्य प्रतियोगिनः संयोगस्य समानाधिकरणत्वादिति शङ्कार्थः । इष्टापत्त्या परिहरति-"तो"ति । मूले कपिसंयोगज्ञानं भ्रम इती. प्यत एवेति भावः । नन्वेवं प्रमालक्षणाननुगमः स्यादत श्राह-“लक्ष्यस्ये"ति। यदस्माकं लक्ष्यमेव नास्ति तत्र यदि लक्षणमसङ्गतं, तदा नास्ति कश्चिद्दोष इति भावः।
एतादृशस्थलन्तु-सामान्यलक्षणलक्ष्यमेव नास्तीति, किन्तु एतादृशस्थलाथ प्रतियोगिव्यधिकरणाद्यघटितं विशेषलक्षणम् । तच्चेत्थम् -मूलावच्छेदेन ( संयोगाभावावच्छेदेन ) संयोगाभाववति संयोगज्ञानं भ्रम इति स्वामिनः ।
(का०) प्रमात्वं न स्वतो ग्राह्यं संशयानुपपत्तितः ॥१३६॥ (मु०) प्रमात्वमिति । मीमांसका हि प्रमात्वं स्वतो ग्राह्यमिति