________________
निश्वयसंशययोः प्ररूपणम् ।
(का० ) अथवा तत्प्रकारं यज्ज्ञानं तद्वद्विशेष्यकम् ।
तत्प्रमा न प्रमा नापि भ्रमः स्यान्निर्विकल्पकम् ॥ १३५॥ *प्रकारतादिशून्यं हि सम्बन्धानवगाहि तत् ।
४०१
( मु० ) ननु यत्र शुक्तिरजतयोरिमे रजते इति ज्ञानं जातं तत्र रजतांशेऽपि प्रमा न स्यात् तज्ज्ञानस्य भ्रमभिन्नत्वाभावादत आह-तद्वद्विशेष्यकत्वे सति तत्प्रकारकं ज्ञानं प्रमेत्यर्थः । अथैवं स्मृतेरपि प्रमात्वं स्यात् । ततः किमिति चेत्तथा सति तत्करणस्यापि प्रमाणान्तरत्वं स्यादिति चेन्न, यथार्थानुभवकरणस्यैव प्रमाणत्वेन विवक्षितत्वात् । इदं तु बोध्यम् । येन सम्बन्धेन यद्वत्ता तेन सम्बन्धेन तद्वद्विशेष्यकत्वं तेन सम्बन्धेन तत्प्रकारकत्वं वाच्यम् । तेन कपालादौ संयोगादिना घटादिज्ञाने नातिव्याप्तिः । एवं सति निर्विकल्पकं प्रमा न स्यात्तस्य सप्रकारकत्वाभावादत आह । न प्रमेति । ननु वृक्षे कपिसंयोगज्ञानं भ्रमः प्रमा च स्या दिति चेन्न प्रतियोगिव्यधिकरणकपिसंयोगाभाववति संयोगज्ञानस्य भ्रमत्वात् । नच वृक्षे संयोगाभावावच्छेदेन भ्रमो न स्यात्तत्र संयोगाभावस्य प्रतियोगिसमानाधिकरणत्वादिति वाच्यम्, तत्र संयोगाभावावच्छेदेन संयोगज्ञानस्य भ्रमत्वाल्लक्ष्यस्याननुगमाल्लक्षणाननुगमेऽपि न क्षतिः ।
"
( प्र टी ) दर्शितलक्षणस्य रङ्गरजतयोः “ इमे रजते" इत्यत्र रजतांशे रजतज्ञानस्य प्रमात्मकस्यापि रङ्गांशे रजतज्ञाने भ्रमरूपेण सम्भिन्नतया = सम्मि श्रुतया अर्थाद् भ्रमभिन्नत्वाभावेन प्रमात्वाभावादव्याप्तिरित्यतो लक्षणान्तरमाह - "अथवेति परममूले । तन्मूले विशदीकरोति – “तद्वद्विशेष्यकत्वे सतीति । तद्विशेष्यकत्वावच्छिन्नतत्प्रकारकत्ववज्ञानं प्रमेत्यर्थः । सति सप्तम्या अवच्छिन्नार्थकत्वात् । तत्प्रकारकभ्रमेऽतिव्याप्तिवारणाय " तद्वद्विशेष्यके" ति । रजत एव द्रव्यम्" इति " ज्ञान ज्ञाने रजतत्वप्रमात्वापत्तिरतः - " तस्प्रकारके" ति । पदञ्च तथाविधेच्छायामतिव्याप्तिवारणाय बोध्यम् । ननु – उक्तं लक्षणं स्मृतावतिव्याप्तमिति सापि प्रमा स्यादित्याशयवान् शङ्कते – “ श्रथे 'ति । सद्धान्ती श्राशयमविद्वान् पृच्छति – “ ततः किमिति चेदिति । श्रक्षेप्ता स्वाभिसन्धिमुद्घाटयति - " तत्करणस्यापी"
66
--
.
* यत्तु "ज्ञानं यन्निर्विकल्पाख्यं तदतीन्द्रियमिष्यते" इति प्राक् निर्बिक - ल्पस्य इन्द्रियागोचरत्वमुक्तम्, अथच प्रत्यक्षस्यैव निर्विकल्पकं भेदमाचक्षते नैयायिकाः, तद्वयाइतमिति केषाञ्चित्कुचोद्यं तदभिप्रायाज्ञानमूलकमेव, इन्द्रियागोचरत्वकथनस्य सांसर्गिकविषयताशून्यतायां पर्यवसायित्वादिति मे भाति । परत्र पण्डिताः प्रमाणम् ।