________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावस्याः [गुणग्रन्ये मनाविहादि"ति। प्रमायां दोषाभावः कारणं गुणो वा कारणमित्येकपक्षपातिन्या युक्नेरभावादिति भावः । वस्तुतो गुणहेतुतायामेव नाघवं विनिगमकमस्तीत्याह"अनन्ते"ति । "न्याय्यत्वादि"ति--अनुगतगुणत्वस्य अग्रे वक्ष्यमाणत्वान तद्धेतृत्वमतोऽयं दोष इति भावः ।
प्रमाम्प्रति दोषाभावकारणवादी शङ्कते-"नचे"ति । प्रमाम्प्रति गुणकारणता. वादी समाधत्ते-"तथापी"ति। तथाच पित्तादिदोषाभावसत्वेऽपि विशेषणवद्विशेष्यसन्निकर्षरूपगुणाभावसत्वान्न शङ्ख पीतत्वप्रमेति दोषाभावेन न गुणस्यान्यथा. सिद्धत्वमिति भावः । सिद्धान्ती प्रतिवन्दीमप्याह-"एवमि"ति। गुणाभाव एव नतु दोषः कारणं स्यादिति भावः । “तत्र दोषा: के' इत्यादि सुगममन्यत् ॥ २३१ ॥
(मु०) अथ के गुणा इत्याकाङ्क्षायां प्रत्यक्षादौ क्रमशो गुणादर्शयति-- (का०) प्रत्यक्षे तु विशेष्येण विशेषणवता समम् ।
सन्निकर्षों गुणस्तु स्यादथ त्वनुमितौ गुणः ॥१३२॥ पक्षे साध्यविशिष्टे तु परामर्शों गुणो भवेत् । शक्ये सादृश्यबुद्धिस्तु भवेदुपमितौ गुणः ॥१३३॥ शाब्दबोधे योग्यतायास्तात्पर्यस्याथ वा प्रमा।
गुणः स्याद्रममिन्नं तु ज्ञानमत्रोच्यते प्रमा ॥१३४॥ ( म०) प्रत्यक्षे विति। प्रत्यक्षे विशेषणवद्विशेष्यसन्निकर्षों गुणः । अनुमितौ साध्यवति साध्यव्याप्यवैशिष्टयशानं गुणः । एवमग्रेऽपि शेयम् ॥ प्रमां निरूपयति । भ्रमभिन्नमिति ॥ १३२-१३४ ॥
(प्र० टी० ) प्रमाभेदे गुणभेदं दर्शयितुमाह-"अथ के गुणा' इति । प्रत्यक्षप्रत्यक्षप्रमायां विशेषणवता=घटस्वादिमता, विशेष्येण-घटादिना सह, सन्निकर्ष:चक्षुरादेरिन्द्रियस्य संयोगादियः स एव गुणस्तां प्रति कारणमित्यर्थः । “अथानुमितौ वि"ति-साध्यं वन्ह्यादि तद्विशिष्टे-तयुक्ने पते पर्वतादौ परामर्शो ज्याप्यवताज्ञानं गुणः। उपमितौ शक्ये गवयादौ सादृश्यबुद्धिः गवादिसादृश्यज्ञानं गुणः । शाब्दबोधे-शाब्दप्रमायां, योग्यतायाः उक्कलक्षणायाः, तात्पर्यस्य वक्त्रभिप्रायस्य वा प्रमा-यथार्थज्ञानं गुणः । “भ्रमभिन्नमि"ति--त्र-न्यायशास्त्रे अन्यस्य अन्यथादर्शनं भ्रमः अतस्मिंस्तबुद्धिरिति यावत् । तद्भिन्नं भ्रमभिन्नं ज्ञानं प्रमेति । एवञ्च "भ्रमभिन्नत्वं सति ज्ञानत्वे" प्रमालक्षणम् । भ्रमसंभिन्ने शुक्तिकायां "रजतमिट" मित्येवमात्मके ज्ञानेऽतिव्याप्तिवारणाय "भ्रमभिन्नत्वे सति" इत्युक्तम् । पटादावतिव्याप्तिवारणाय विशेष्यदलम् ॥ १३२-१३४ ॥