________________
दोषादप्रमा, गुणात्प्रमा छ ।
यथा प्रमा ज्ञानसाधारणकारणभिन्नकारणजन्या जन्यज्ञानत्वात् अप्रमावत् । नच दोषाभाव एव कारणमस्त्विति वाच्यम्, पीतः शङ्ख इति ज्ञानस्थले पित्तदोषसत्त्वाच्छङ्खत्वप्रमानुत्पत्तिप्रसङ्गातू । विनिगमनाविरहादनन्तदोषाभावकारणत्वमपेक्ष्य गुणस्य कारणताया न्याय्यत्वात् । नच गुणसवेऽपि पित्तन प्रतिबन्धाच्छङ्क न श्वेत्यज्ञानमतः पित्तादिदोषाभावानां कारणत्वमवश्यं वाच्यं तथा च किं गुणस्य हेतुत्वकल्पनयेति वाच्यम्, तथाप्यन्वयव्यतिरेकाभ्यां गुणस्यापि हेतुत्वसिद्धेः । एवं भ्रमं प्रति गुणाभावः कारणमित्यस्यापि सुवचत्वम् । तत्र दोषाः के इत्याकाङ्क्षायामाह । पित्तेति । क्वचिच्चन्द्रादेः स्वल्पपरिमाणभ्रमे दूरत्वं दोषः। क्वाचिच्च वंशोरगभ्रमे मण्डूकवसाञ्जनमित्येवंरूपा दोषा अननुगता भ्रान्तिजनका इत्यर्थः ॥२३॥
(प्र. टी.) दोषादप्रमोत्पद्यत इत्याह परममूले "दोषोऽप्रमाया" इति । अप्रमायाः= अयथार्थज्ञानस्य "पीत: शङ्खः" रज्जौ "अयं सर्प" इत्याकारस्य, जनकः = कारणम् । प्रमाया: = यथार्थज्ञानस्य तद्वति तत्प्रकारकत्वरूपस्य, गुणो = विशेषणं जनकः = कारणं भवेदित्यर्थः । “स्वविशेषणविशिष्टविशेष्यदर्शनादेव प्रमोत्पत्ति"रिति भावः । दोषं दर्शयति-"पित्ते"ति । पित्तं = चिकित्साशास्त्रप्रसिद्धो दोषविशेषः । दूरत्वम् = दूरता । श्रादिना मण्डूकवासाजनचाकचिक्यादिपरिग्रहः । तदादीनि तत्प्रभृतीनि रूपाणि = स्वरूपाणि यस्य स तथोक्तः दोषः नानाविधः = अनेकप्रकारः स्मृतो= मत इत्यर्थः । शङ्खगतपीतिमभ्रमे पित्तं दोषः । चन्द्रमसः स्वल्पतायां दूरत्वं दोषः । वंशोरगे मण्डूकवसाञ्जनं दोषः । रज्जौ या सर्पधीः तत्र अन्ध. कारादिर्विषयगतो, भयादिश्च प्रमातृगतो दोषः । एवमन्ये यथायथमूद्याः । उक्ताशयेन विवृणेति-"अप्रमा प्रति दोषः कारण" मित्यादिग्रन्थेन मुक्तावल्याम् । __ दोषाणामनैयत्यादाह-" तत्रापी "ति । अननुगता: कुत्रचित्कश्चिद्दोषः कुत्रचिस्कश्चिद्दोषः कारणमित्यर्थः । तेषां कारणत्वमि"ति । "पित्तादिदोषसत्वे अप्रमासत्त्वम् , पित्तादिदोषाभावे अप्रमाभाव" इत्यन्वयव्यतिरेको बोध्यावित्यर्थः । नन्वेवं प्रमा प्रति गुणास्याप्यन्वयव्यतिरेको स्त इत्यत आह-"गुणस्य प्रमाजन. कत्व"मिमि । प्रमाहेतुस्वमित्यर्थः । अनुमानात् सिद्धमित्युक्तं तत्रानुमानं दर्शयति"यथे"ति । ज्ञानसाधारणकारणमिन्द्रियसन्निकर्षादिः, तद्भिन्नं कारणं विशेषणविशिष्टविशेष्यसन्निकर्षादिः। अग्रेऽनुपदं वक्ष्यमाणः । अर्थान्तरं निराकुरुते-"नचे"त्यादिना। "कारणमस्त्वि"ति । प्रमा प्रति हेतुररिस्वत्यर्थः । “पीत शङ्ख" इत्यादि सिद्धान्तिप्रन्थः। “शङ्खत्वप्रमे"ति-शङ्खस्ववद्विशेष्यकशङ्खवप्रकारकं ज्ञानं स्यात्, तव कथा नानुसारमत्र दोषाभावरूपं कारणन्तु नास्ति किन्तु पित्तरूपो दोषो वर्तते एव । ननुपित्तात्मकदोषाभावः श्वैत्यप्रमायामेव कारणं न शङ्खवप्रमायामत माह-"विनिग