________________
३९८
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावस्याः
[गुणग्रन्थे
शब्दवमसाधारणो धर्मः । संशयमुदाहरति-म्ले "यथोच्चैस्तरत्व"मिति । असा. धारणधर्मज्ञानजन्यं संशयमनुमनुते-"एवमि"ति । तदुदाहरति-यथा "शब्द. त्वस्ये"ति । नित्यानित्यन्यावृत्तत्वेन = शब्दत्वं नित्यपरमारवादिम्यावृत्तं, अनित्यघटादिन्यावृत्तश्च शब्दमात्रवृत्तित्वादसाधारणो धर्मः । विप्रतिपत्तिमप्येके गौत्तमीयाः संशयहेतुं मन्यन्ते तन्मतं कटाक्षयचाह-"विप्रतिपत्तिस्त्वि"ति । विरुद्धकोटिद्वयोपस्थापकः शब्दविशेषो विप्रतिपत्तिरित्याशयेनाह-"इत्यादिशब्दात्मिके". ति। श्रादिना "अस्ति प्रारमा इत्येके, नास्त्यारमेत्यपरे” इति श्रुत्वा मध्यस्थस्य संशय आत्माऽस्ति नवेत्यादिपरिग्रहः । “न संशयकारणमि"ति । तत्र हेतुमाह"शब्दव्याप्तिज्ञानादीनामि"ति । श्रादिनाऽतिदेशवाक्यार्थज्ञानपरिग्रहः । ननुतहि गौत्तमसूत्रस्थपञ्चम्यनुपपत्तिरित्यतमाह-"किन्त्वि"ति । संशयप्रसङ्गादाह"एवमि"ति । उपलब्ध्यनुपलब्ध्यव्यवस्थे अपि न संशयकारणमित्यर्थः । अक्षराथस्तु-ज्ञाने="इदं जल"मित्याकारके ज्ञाने, प्रामाण्यसंशयात्="इदं जलस्वप्रकारकं ज्ञानं प्रमा न वा” इत्याकारकप्रमाण्यसंशयात् विषयसंशय:="इदं जल न वेति" संशयो भवति ।
- अयमभिसन्धिः-एकदा जले जलज्ञानमुत्पन्नं तदा सम्यक् जातम् , अन्यदा मरुमरीचिकायां मिथ्या जलज्ञानमुत्पन्नम्, सदनु कदाचिद्वनङ्गतस्य दूरतो लिङ्गदशनाज्जायमाने वृक्षसङ्केषु जलज्ञाने "किमिदं ममोत्पन्नं जलज्ञानं सम्यङ् मिथ्यावे"तियः संशयः स आन्तरविषयः संशयः। ततः "इदं जलं न वे"ति यः संशयो भवति सः प्रामाण्यसंशयजन्यो विषयसंशयः । एवमन्यत् । “एवं व्याप्यसंशयाद. पी"ति । ब्याप्यो धूमादिः । तत्र "पर्वतो धूमवान्नवा" इत्याकारकसंशयात् "पर्वतो वह्निमान्नवेति" य: संशयः स ब्यापकसंशयः वढेापकत्वात् । ननु-साधारणधर्मज्ञानादेरिव धर्मिज्ञानस्यापि संशयहेतुत्वात् तस्कृतो विभागः कुतो न प्रदर्शित इत्याह - "संशये धर्मिज्ञानमि"ति । संशये-संशयमात्रे धर्मिज्ञानस्य कारणतेति भावः। उनञ्च वैशेषिके-“सामान्यप्रत्यक्षाद्विशेषाप्रत्यक्षाद् विशेषस्मृतेश्च सशयः" । (वै० अ० २ । भा० २ । सू० १७ ) सूत्रार्थस्तु-सामान्यवतो धर्मिणः प्रत्यक्षात् विशेषस्य परस्परल्यावर्त्तकस्य धर्मस्य वक्रकोटरादेः शिरःपाण्यादेश्चाप्रत्यक्षात् विशेषस्य कोटिद्वयस्य स्थाणुत्वपुरुषत्वलक्षणस्य स्मरणात् संशयो भवतीति भावः । (का०) दोषोऽप्रमाया जनकः प्रमायास्तु गुणो भवेत् ।
पित्तदुरत्वादिरूपो दोषो नानाविधः स्मृतः ॥१३१॥ (मु०) दोष इति अप्रमा प्रति दोषः कारणम् । प्रमा प्रति गुणः कारणम् । तत्रापि पित्तादिरूपा दोषा अननुगताः । तेषां कारणत्वमन्वयव्यतिरेकाभ्यां सिद्धम् । गुणस्य प्रमाजनकत्वं तु अनुमानासिद्धम् ।