________________
निश्चयसंशयोःप्ररूपणम् ।
A
तदभावाप्रकारा धीस्तत्प्रकारा तु निश्चयः ॥१२६॥ (मु०) किंस्विदिति। किंस्विदिति वितर्के । निश्चयस्य लक्षणमाह । तदभावेति । तदभावाप्रकारं तत्यकारं ज्ञानं निश्चयः॥ १२६ ॥
(प्र० टी० ) संशयमुदाहरति-="किंस्विदि"ति । दूरादुच्चैस्तरत्वं स्थाणुपुरुषसाधारणं धर्म दृष्ट्वा "किमयं स्थाणुः पुरुषो वे"ति उभयकोटथवगाहिज्ञानं जायते स संशयः । प्रसङ्गान्निश्चयं लक्षयति परममूले-"तदभावाप्रकारे"ति। तद्विवृणोति-- मूले "तदभावाप्रकारकमि"ति । संशयेऽतिव्याप्तिवारणाय "तदभावाप्रकारकमि"ति । निर्विकल्पकेऽतिव्याप्तिवारणाय "तत्प्रकारकमि"ति । (का०) स संशयो मतिर्या स्यादेकत्राभावभावयोः ।
साधारणादिधर्मस्य ज्ञानं संशयकारणम् ॥ ६३०॥ (मु०) संशयं लक्षयति-स संशय इति । एकधर्मिकविरुद्धभावाभावप्रकारकं ज्ञानं संशय इत्यर्थः। साधारणति । उभयसाधारणो यो धर्मस्तज्ज्ञानं संशयकारणम् । यथोच्चैस्तरत्वं स्थाणुपुरुषसाधारणं शात्वाऽयं स्थाणुन वेति संदिग्धे । एवमसाधारणधर्मज्ञानमपि कारणम् । यथा शब्दत्वस्य नित्यानित्यव्यावृत्तत्वेन शब्दे गृहीतत्वाच्छब्दो नित्यो न वेति सदिग्धे। विप्रतिपत्तिस्तु शब्दो नित्यो न वेत्यादिशब्दात्मिका न संशयकारणं, शब्दव्याप्तिज्ञानादीनां निश्चयमानजनकत्वस्वभावात् । किन्तु तत्र शब्देन कोटिद्वयज्ञानं जन्यते, संशयस्तु मानस एवेति । एवं ज्ञानप्रामाण्यसंशयाद्विषयसंशय इति । एवं व्याप्यसंशयादपि व्यापकसंशय इत्यादिकं बोध्यम् । किन्तु संशये धर्मिज्ञानं धर्मीन्द्रियसन्निकर्षों वा कारणमिति ॥ १३० ॥
(प्र० टी०) संशयं लक्षयति--परममूले “स संशय" इति । कारिकास्थं लक्षणं सामञ्जस्येन दर्शयति-मूले “एकर्मिके"ति । “एकर्मिविशेष्यक विरुद्धकोटिद्वयप्रकारकज्ञानवसंशयस्वं मित्यर्थः । हृदपर्वतौ वह्नितदभाववन्तौ इति ज्ञानेऽतिन्याप्तिवारणाय एकधर्मिकेति । एकधर्मितावच्छेदकविशिष्टविशेष्यकत्वावच्छिन्नेत्यर्थः । अथवा "क्षितिजले गन्धतदभाववती" इत्याद्याकारकज्ञानवारणाय एकधर्मिकेति। वृक्ष: कपिसंयोगी तदभाववांश्च'त्यादिवारणाय “विरुद्ध"ति । घटः क्षितिजलं चेति समुच्चयवारणाय "भावाभावे"ति । संशये हेतुमाह-"साधारणादिधर्मस्ये"ति परममूले । तब्याख्याति मुले--"उभयसाधाण" इति । श्रादिपदाद् असाधारणधर्मस्य ग्रहणम्, तज्ज्ञानमपि संशयस्य कारणम् । तत्र साधारणधर्मजन्यसंशयो यथा-"स्थाणुर्वा पुरुषो वे"ति । अत्र उच्चैस्तरत्वं धर्मः स्थाणुपुरुषसाधारणः । असाधारणधर्मजन्यो यथा-"शब्दो नित्योऽनित्योवे, त्यत्र