________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्या
[गुणप्रन्ये
(मु०) क्रमप्राप्तां बुद्धिं निरूपयितुमाह-बुद्धेरिति । तत्राप्रमां निरूपयति । तच्छून्य इति । तदभाववति तत्प्रकारकं ज्ञानं भ्रम इत्यर्थः तत्प्रपञ्चोप्रमाप्रपञ्चः ॥१२५॥ ॥१२६ ॥ ॥१२७॥
(प्र० टी० ) बुद्धेः = ज्ञानस्य प्रपञ्चः= विस्तारः भेदप्रभेदादिः, अनुभूतिः स्मृतिश्चेति, अनुभूतिश्चतुर्विधा इत्येवमाकारः प्रायशो बाहुल्येन, प्रागेव %
आत्मनिरूपणानन्तरमेव निरूपितो- वर्णित: तथापि प्रमाऽप्रमादिभेदेनावशिष्टः प्रकारः, अथ = अपेक्षाबुद्धिनिरूपणानन्तरं परिदर्श्यते - विविच्योच्यते इत्यर्थः । प्रतिज्ञानुसारं बुद्धि विभजते-"अप्रमे"ति । प्रमाऽप्रमाभेदेन ज्ञानं द्विविधमित्यर्थः । तन यथार्थानुभवः “प्रमा" । अयथार्थानुभवोऽ"प्रमा" । ननु-"बुद्धेरवशिष्टः प्रपञ्चः" इति प्रतिज्ञाय ज्ञानविभजने का प्रसङ्ग इति चेद ? बाढम् = परन्तु "बुद्धिरुपलब्धिनिमित्यनर्थान्तरम्” (न्या० १,११११) इति गोतमसूत्रेण तयोः पर्यायताप्रतिपादने ज्ञानविभागे वुद्धेरेव विभाग इति शब्दान्तरोपादानं न दोषावहम् । अप्रमां लक्षयति--"तच्छन्य"इति । शून्यपदमत्यन्ताभाववदर्थकम्, तथाच फलितमाह-भूले “तदभाववती"ति । अप्रमां विभजते-" तत्प्रपञ्च" इति । विपर्यासो विपर्ययो विरुद्धज्ञानमिति यावत् । संशयः सन्देहोपि, तत्पूञ्चः = अप्रमाप्रपञ्चः अप्रमाभेद इति यावत् । कश्चिदत्र तर्कोऽपि सङ्ग्रहीतः। तथाच संशयविपयर्यतर्क भेदादप्रमा विधेत्यर्थ इत्याह । जैनास्तु-"किमित्यालोचनमात्रमनध्यवसायः" यथा पथि गच्छतस्तृणस्पर्शादिज्ञानम् । इदं हि नानाकोटयनवलम्बनाभावान संशयः, विपरीतैककोटिनिश्चयाभावान्न विपर्यय इति पृथगेव, तद प्यप्रमैवेत्याहुः । १२५, १२६, १२७।। [का०] आयो देहेष्वात्मबुद्धिः शङ्खादौ पीततामतिः।
भवेनिश्चयरूपा या(मु०) आद्य इति । विपर्यास इत्यर्थः । शरीरादौ निश्चयरूपं यदात्मस्वप्रकारकं ज्ञानं गौरोऽहमित्याकारकम् एवं शङ्खादौ पीतः शङ्ख इत्याकारकं यज्ज्ञानं निश्चयरूपं तद् भ्रम इति ॥ १२८ ॥ . (प्र० टी० ) विपर्यासादिभेदेषु प्रत्येकमुदाहरति--परममूले "श्राध" इति ।
अनात्मभूतं देहे श्रात्ममतिर्या स्वभावतः, शुक्ले शङ्ख “पीत: शङ्ख" इति ज्ञानञ्च निश्चयात्मकं विपर्ययो बोध्यः। एवमेव रज्जौ "अयं सर्प" इति सर्पज्ञानं, शुक्नौ "इदं रजत"मिति रजतज्ञानञ्च पिपर्ययस्थलम्। एतदभिप्रायेणैव मूले "शरीरादाविति । व्याख्याति । स्पष्टम् ।। [का०] संशयोऽथ प्रदर्श्यते ॥ १२८ ॥
किंस्विन्नरो वा स्थाणुर्वेत्यादिबुद्धिस्तु संशयः।