________________
परत्वाऽपत्वनिरूपणम् ।
.
पर
(प्र० टी ) कारिकां व्याख्याति-"परत्वञ्चती" त्यादिना । दैशिकपरवस्य निमित्तकारणमाह-बहुतरेति । दैशिकापरत्वस्य निमित्तकारणमाह-"एवं तद. ल्पीयस्त्वे"ति । अर्थात् बहुतरसंयोगान्तरितत्वं यद्विप्रकृष्टत्वं तद्विषयिण्येवापेक्षाबु. द्विदेशिकपरत्वं प्रति निमितम् । अल्पसंयोगान्तरितस्वरूपसनिकृष्टस्वविषयिण्येवापेक्षाधुद्धिदैशिकापरत्वं प्रति निमित्तमित्यर्थः ।
( का० ) तयोरसमवायी तु दिक्संयोगस्तदाभये । __(मु०) तयोर्देशिकपरत्वापरत्वयोः । असमवायी असमवायिकार: णम् । तदाश्रये दैशिकपरत्वापरत्वाश्रये ।
(प्र० टी० ) “तयो"रिति--तयोदेशिकपरत्वापरत्वयोः प्राश्रये = समवानिनि पिण्डे दिक्संयोगोऽसमवायिकारणमित्यर्थः। (का० ) दिवाकरपरिस्पन्दभूयस्त्वज्ञानतो भवेत् ॥२३॥
परत्वमपरत्वं तु तदीयाल्पत्वबुद्धितः।
अत्र त्वसमवायी स्यात्संयोगः कालपिण्डयोः ॥१२४॥ (प्र० टी० ) कालिकपरवापरत्वायो: कारणं वक्ति--"दिवाकरे"ति । अत्र कालिकपरवापरत्वयोः कालेन सह पिण्डस्य संयोगः = ज्येष्ठकनिष्ठयोः शरीरस्य यः सम्बन्धः सोऽत्रासमवायी असमवायिकारणमित्यर्थः।। __(मु०) दिवाकरेति । अत्र परत्वापरत्वं कालिकं ग्राह्यम् । यस्य सूर्यपरिस्पन्दापेक्षया यस्य सूर्यपरिस्पन्दोऽधिकः स ज्येष्ठः । यस्य न्यूनः स कनिष्ठः । कालिकपरत्वापरत्वे जन्यद्रव्य एव । अत्र कालिकपरत्वापरत्वयोः ॥१२३॥ ॥१२४॥
(प्र० टी० ) व्याख्याति-"अत्रे"ति । तदेतस्कृतप्रपञ्च कानग्रन्थे प्रत्यक्षखण्डे । [फा०] अपेबाबुद्धिनाशेन नाशस्तेषां निरूपितः। (मु०) तेषां कालिकदैशिकपरत्वापरत्वानाम् ।।
(प्र० टी० ) तेषां नाशहेतुमाह--"अपेक्षे"ति । अपेक्षाबुद्धिनाशो दैशिकका. लिकपरत्वापरत्वानां नाशक इत्यर्थः । [का०] बुद्धेः प्रपश्चः प्रागेव प्रायशो विनिरूपितः ॥१२॥
अथाविशिष्टोऽप्यपरः प्रकारः परिदर्श्यते । अप्रमा च प्रमा चेति ज्ञानं द्विविधमिष्यते ॥१२७॥ तच्छ्न्ये तन्मतियों स्यादप्रमा सा निरूपिता । तत्प्रपश्चो विपर्यासः संशयोऽपि प्रकीर्तितः ॥१२७॥