________________
३६४ सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्या: [गुणग्रन्थे इति यावत् । “अन्यथे"ति--आरम्भकसंयोगप्रतिद्वन्द्विविभागजनककर्मणोऽनार म्भकसंयोगप्रतिद्वन्द्विविभागजनककर्मणश्चैक्ये इत्यर्थः । “विकसदि"ति-तत्राग्राववेदेन अनारम्भकसंयोगप्रतिद्वन्द्विविभागजनककर्मणः सत्वात् तेन कर्मणा मूला. वच्छिन्नारम्भकसंयोगविरोधिविभागोत्पत्तिः, तेन चारम्भकसंयोगनाशः, तेन कमलनाशः स्यादिति भावः । अवान्तरमुद्रया प्रकरणमुपसंहरति--"तस्मादि"ति। शङ्कते-"नचे"ति । कारणविभागेनैव = घटादिकारणीभूतकपालद्वयादिमात्रविभागेनैवेत्यर्थः । 'द्रव्यनाशादि"ति-घटादिद्व्यनाशादित्यर्थः । पूर्वम् = घटाद्यात्मकद्रव्यनाशात्पूर्वम् । तथाच पूर्वोक्तं "ततो घटनाशः तत: कपालस्याकाशविभागो जन्यत" इत्यसङ्गतमिति भावः । समाधत्ते-"श्रारम्भकसंयोगे"ति । सति द्रव्ये - द्रव्यनाशं विना देशान्तरविभागासम्भवादिति । अन्यथा कारणमात्रविभागे कमलक्षणस्यातिव्याप्यापत्तेः । कारणाकरणविभागजन्यं विभागं दर्शयितुमाह"द्वितीयस्तावदि"ति । "यादवदवयकर्मनियतत्वादिति । क्रियाया ग्याप्यवृत्तित्वनियमादिति भावः । अतएव = वक्ष्यमाणयुक्तरेवेत्यर्थ । "शरीरे विभक्तप्रत्ययो न स्यादिति--यन्त्र हस्तक्रियया हस्ततरुविभागः तन शरीरे विभक्तप्रत्ययः सर्वानुभवसिद्धः, सच विभागं विना नोपपद्यत इति भावः । "श्रत" इतिवस्तुतस्तु--''संयोगाभावो विभागो विभागाभावो वा संयोग' इत्यत्र विनिगमनाविर. हेणोभयोरप्यतिरिकत्वम् । अत एव “घटात् पटो विभक्त'' इति प्रत्यय उपपद्यत इत्यन्यत्र विस्तरः ॥ १२० ॥ [का०] परत्वं चापरत्वं च द्विविधं परिकीर्तितम् ।
दैशिकं कालिकं चापि मृत एव तु दैशिकम् ॥१२१॥ परत्वं मूर्त संयोगभूयस्त्वज्ञानतो भवेत् ।
अपरत्वं तदल्पत्वबुद्धितः स्यादितीरितम् ॥१२२।। (प्र० टी०)परवापरत्वे प्ररूपयितुं विभजते-परममूले “परत्व"मिस्यादिना। दैशिकं = दिक्कृतं कालिकं = कालकृतम् । दैशिकपरत्वापरत्वयोर्विषयतामाह--"मूर्त एवे"ति। चित्यतेजोवायुमनःसु केवलं वर्तते नान्यत्रेत्यर्थः। तयोनिमित्तमाह---"परत्वमिति। दैशिकपरत्वे मूर्तसंयोगभूयस्त्वज्ञानं हेतुः । दैशिकापरत्वे मूर्तसंयोगाल्पत्वज्ञानं हेतुरित्यर्थः॥
(मु०) परापरव्यवहारनिमित्ते परत्वापरत्वे निरूपयति-परत्वं वेति ॥ दैशिकपरत्वं बहुतरमूर्तसंयोगान्तरितत्वज्ञानादुत्पद्यते । एवं तदल्पीयस्त्वज्ञानादपरत्वमुत्पद्यते। अत्रावधित्वार्थ पञ्चम्यपेक्षा। यथा पाटलिपुत्रात्काशीमपेक्ष्य प्रयागः परः । पाटलिपुत्रात्कुरुक्षेत्रमपेक्ष्य प्रयागोऽपर इति । १२१ ॥ १२२ ॥