________________
विभागनिरूपणम् ।
hraaruna.irn.AAR.aaaaaaaaaaaaaachaar
पि विभागजविभागः, कारणमात्रविभागजन्यः कारणाकारणविभागजन्यश्चेति । श्राद्यस्तावत् । यत्र कपाले कर्म ततः कपालद्वयविभागः । ततो घटारम्भकसंयोगनाशः । ततो घटनाशः । ततस्तेनैव कपालविभागेन सकर्मणः कपालस्याकाशविभागो जन्यते । तत आकाशसंयोगनाशः । तत उत्तरदेशसंयोगः। ततः कर्मनाश इति । नच तेन कर्मणैव कथं देशान्तरविभागो न जन्यत इति वाच्यम्, एकस्य कर्मण प्रारम्भकसंयो. गप्रतिद्वन्द्विविभागजनकत्वस्यानारम्भकसंयोगप्रतिद्वन्द्विविभागजनकत्वस्य च विरोधात् । अन्यथा विकसत्कमलकुड्मल भङ्गप्रसङ्गात् । तस्माद् यदीदमनारम्भकसंयोगप्रतिद्वन्द्विविभागं जनयेत्तदारम्भकसं. योगप्रतिद्वन्द्विविभागं न जनयेत् । नच कारणविभागेनैव द्रव्यनाशात्पूर्व कुतो देशान्तरविभागो न जन्यत इति वाच्यम, प्रारम्भकसंयोगप्रति. द्वन्द्विविभागवतोऽवयवस्य सति द्रव्ये देशान्तरविभागासम्भवात् । द्विती. यस्तावत् । यत्र हस्तक्रियया हस्ततरुविभागस्ततः शरीरेऽपि विभक्त. प्रत्ययो भवति तत्र शरीरतरुविभागे हस्तक्रिया न कारणं व्यधिकरणत्वात्। शरीरे तु क्रिया नास्त्येव अवयविकर्मणो यावदवयवकर्मनियतत्वात् । अतस्तत्र कारणाकारणविभागेन कार्याकार्यविभागो जन्यत इति । अत एव विभागो गुणान्तरम् । अन्यथा शरीरे विभक्तप्रत्ययो न स्यात् । अतः संयोगनाशेन विभागो नान्यथासिद्धो भवति ॥ ११६---१२०॥ - (प्र० टी० ) विवृणोति-"विभाग इती"ति । "श्येनशैले"ति-यन्त्र श्येनक्रियया शैलविभागः सोऽन्यतरकर्मजः। यत्र द्वयोर्मेषयोः क्रियया विभाग: असावु. भयकर्मज उच्यते । तृतीयस्तु द्विविध इत्याह--"तृतीयोपी"ति। तृतीय श्राद्यमुदाहरति-"आद्यस्ताबदि"ति । कपालद्वयविभागात् घटनाशोत्तरं कपालस्य देशान्तरेण विभाग इति सारः।
"कपालस्याकाशविभागो जन्यत" इति । इदमत्राकूतकम् -यदि कपाल. स्याकाशविभागो न स्यात् तदा तन्नाशकाभावेन तस्य नित्यत्वापत्तिरेव । कपालाकाशसंयोगस्य प्रतिबन्धकस्य सत्वेनोत्तरसंयोगानुत्पत्त्या कर्मणोऽपि नित्यत्वापत्तिः, उत्तरसंयोगस्यैव स्वजनककर्मनिवर्तकत्वात् तस्मादस्ति कपालस्याकाशविभागः । अमुमर्थं हृदि निधायोक्तम् “तत उत्तरदेशसंयोगनाशस्ततः कर्मनाश"इति । शकते--"नचे"ति । "तेन कर्मणैवेति--कपालद्वयविभागजनककर्मणैवेत्यर्थः । देशान्तरविभागः = कपालाकाशादिविभागः । समाधत्ते--"एकस्ये"ति । "भारम्मके" त्यादि । प्रारम्भकसंयोगः = कपालद्वयसंयोगः, तत्प्रतिद्वन्द्वी - तद्विरोधी तनाशक