________________
११२
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
णग्रन्थे
संयोगः । स्पष्टमन्यत् । “तार्किकरक्षाया"न्तु कर्मविरोधी गुणः संयोगः, युतसिद्धयोः संश्लेषः संयोगः। युतसिद्धिश्चासम्बद्धयोर्विद्यमानतेति केचित् । संयोगविरोधी गुणो विभाग इत्युक्तम् ॥ ११ ॥ (का०) तथोभयक्रियाजन्यो भवेत्संयोगजोऽपरः ।
आदिमः श्येनशैलादिसंयोगः परिकीर्तितः ॥११६॥ मेषयोः सन्निपातो यः स द्वितीय उदाहृतः । (मु०) सन्निपातः संयोगः । द्वितीय उभयकर्मजः ॥ (का०) कपालतरुसंयोगात्संयोगस्तरुकुम्भयोः ॥ ११७ ॥
तृतीयः स्यात्कर्मजोऽपि द्विधैव परिकीर्तितः । अभिघातो नोदनं च शब्दहेतुरिहादिमः ॥ ११८ ॥
शब्दाहेतुर्द्वितीयः स्याद्(मु०) तृतीय इति । संयोगजसंयोग इत्यर्थः । तृतीयः स्यादिति पूर्वणान्वितम् । आदिमः अभिघातः। द्वितीयो नोदनाख्यः संयोग इति ॥ - (प्र० टी० ) अन्यतरकर्मजोभयकर्मजसंयोगजसंयोगभेदात् त्रिविधः संयोग इत्यर्थः। तत्र श्येनशैलादिसंयोग आदिम:-प्रथमोऽन्यतरकर्मजः" श्येनमात्रक्रियाजन्यत्वात्। यत्र उभयोर्मेषयोः क्रियाया जन्यः स "उभयकर्मजः' उभयक्रियाजन्यत्वात् । तृतीयस्तु “संयोगजसंयोगो" यथा कपालतरुसंयोगजन्यो घटतरुसंयोगः । कर्मजसंयोगस्तु द्विप्रकारो भवति–अभिघातो नोदनश्चेति । "अभिघातो' वेण्यादेर्डक्कादेर्वादनम् । सचायं शब्दकारणमित्यत आह--"शब्दहेतु"रिति । “नोदनं" चक्रककतर्यादिना काष्ठादेः कतनं, तस्य शब्दानुत्पादकत्पादकत्वादाह-"शब्दाहेतु"रिति । स्पष्टमन्यत् ।
(का०) विभागोऽपि त्रिधा भवेत् । एककर्मोद्भवस्त्वाद्यो द्वयकर्मोद्भवोऽपरः ॥ ११ ॥ विभागजस्तृतीयः स्यात्तृतीयोऽपि द्विधा भवेत् । हेतुमात्रविभागोत्थो हेत्वहेतुविभागजः ॥ १२० ॥ (प्र० टी० ) विभागं निरूपयति-"विभागोऽपि विधे"ति । विभक्तप्रत्ययाऽसाधारणं कारणं विभाग" इति लक्षणमित्यर्थः । असावपि पूर्ववत् त्रिविधः-- अर्थात् अन्यतरकर्मजोभयकर्मजविभागजविभागभेदात् त्रिधा विभागः।
(मु०) विभक्तप्रत्ययकारणं विभागं निरूपयति--विभाग इति । एककर्मेति । तदुदाहरणं तु श्येनशैलविभागादिकं पूर्ववद्वोध्यम् । तृतीयोऽ