________________
पृथक्कसंयोगौ।
अन्योन्याभावतो नास्य चरितार्थत्वमिष्यते ।
अस्मात्पृथगिदं नेति प्रतीतिर्हि विलक्षणा ॥११४॥ (प्र० टी०) "पृथक्प्रत्यये"ति-पृथक्प्रत्ययासाधारणं कारणं पृथक्त्व. मित्यर्थः । अन्योन्याभावेऽन्तर्भाववादिनो मतं खण्डयति-" अन्योन्याभावत" इति ।
(मु०) पृथक्त्वं निरूपयति-सङ्ख्यावदिति । पृथक्प्रत्ययासाधारणं कारणं पृथक्त्वम् । तन्नित्यतादिकं सङ्ख्यावत् । तथाहि-नित्येष्वेकत्वं नित्यम् । अनित्येष्वनित्यम् । अनित्यमेकत्वं तु आश्रयद्वितीयक्षणे चोत्पधते आश्रयनाशानश्यति । तथैकपृथक्त्वमपि। द्वित्वादिवञ्च द्विपृथक्त्वादिकमपीत्यर्थः । नन्वयमस्मात्पृथगित्यादावन्योन्याभावो भासते तत्कथं पृथक्त्वं गुणान्तरं स्वीक्रियते, न चास्तु पृथक्त्वं, न त्वन्योन्याभाव इति वाच्यम्, रूपं न घट इति प्रतीत्यनापत्तेः । नहि रूपे घटावधिकं पृथक्त्वं गुणान्तरमस्ति न वा घटे घटावधिकं पृथक्त्वमस्ति येन परम्परासम्बन्धः कल्प्यत इत्यत आह । अस्मादिति । ननु शब्दवैलक्षण्यमेव न त्वर्थवैलक्षण्यामति चेन्न, विनार्थभेदं घटात्पृथगितिवद्धटो न पट इत्यत्रापि पञ्चमीप्रसङ्गात् । तस्माद्यदर्थयोगे पञ्चमी सोऽर्थों नअर्थान्योन्या. भावतो भिन्नो गुणान्तरं कल्प्यत इति ॥११३॥ ॥११४॥
(प्र० टी० ) कारिका व्याख्याति-"संख्यावदिती"ति । शङ्कते-"नन्वि". ति। "अयमस्मात्पृथक्" अर्थात् “घटः पटात्पृथक्" इतिपृथकप्रतीतेः "श्रयमसौ न" अर्थात् "घटःपटो न" इत्यन्योन्याभावप्रतीते नैवार्थभेदं पश्याम: तस्मात् पृथकस्यान्योन्याभावेऽन्तर्भावो भवतु किं तस्य पृथक्स्वीकारेण इति शङ्काकर्तुराशयः। अस्य समाधानग्रन्थः-"अस्मात् पृथक्” “इदं नेति' परममूलम् । अर्थात् उभयाकारा प्रतीतिर्विलक्षणा विषयभेदं विना नार्हति भवितुं, तेन नान्योन्याभावे पृथक्स्वस्यान्तर्भावः । पुनः शङ्कते--"नन्धि,'ति । समाधत्ते-"ने"ति । अत्र नव्या:अन्योन्याभाव एव पृथक्त्वं नतु गुणान्तरम् ।। ११४ ॥ ( का०) अप्राप्तयोस्तु या प्राप्तिः सैव संयोग ईरितः।
कीर्तितस्त्रिविधस्त्वेष श्राद्योऽन्यतरकर्मजः ॥११॥ (मु०) संयोगं निरूपयति--अप्राप्तयोरिति । तं विभजते । कीर्तित इति । एष संयोगः ॥११॥
(प्र० टी० ) अप्राप्तयोः-असम्बद्धयोः प्राप्तिः सम्बन्धः संयोगः । संयोगत्वं जातिविशेषो लक्षणम् । अथवा "इमौ संयुक्तौ” इति संयुक्तप्रत्ययासाधारणं कारणं