________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[णम
माणान्तरस्य प्रत्यक्षसिद्धत्वादिति वाख्यम्, परमाणुविश्लेषे हि व्यणुकस्य नाशोऽवश्यमभ्युपेयस्तन्नाशे च त्रसरेणुकनाशः एवं क्रमेण महा. वयविनो नाशस्यावश्यकत्वात् । सति च नाशकेऽनभ्युपगममात्रण नाशस्यापलपितुमशक्यत्वात् । शरीरादाववयवोपचयेऽसमवायिकारणनाशस्यावश्यकत्वावयविनाश आवश्यकः ।
(प्र. टी.) परिमाणस्य नाशकमाह-"नाशस्त्वि "ति । श्राश्रयस्य: परिमाणाधारस्य द्रव्यस्य नाशतो नाशात् परिमाणस्य नाश इति कारिकांशार्थः । तद्विवृणोति-"परिमाण"मित्यादिना मूले । अत्र शङ्कते–“नचे"ति । समाधत्ते -"परमाणुविश्लेषही"ति । बाल्यशरीरस्य यौवने विनाशः, यौवनशरीरस्य वार्धक्ये विनाश इति तस्यानित्यत्वेनानात्मत्वं पूर्वमुक्तं स्पष्टीकुर्वन्निवाह-"शरीरीदावि"ति। य
(मु०) नच पटादिविनाशेऽपि तन्त्वन्तरसंयोगात्परिमाणाधिक्यं न स्यादिति वाच्यम्, तत्रापि वेमाद्यभिघातेनासमवायिकारणतन्तुसंयोगनाशात्पटनाशस्यावश्यकत्वात् । किञ्च तन्त्वन्तरस्य तत्पटावयवत्वे पूर्व तत्पट एव न स्यात्तन्त्वन्तररूपकारणाभावात् । तन्त्वन्तरस्यावयवत्वाभावे च न तेन परिमाणाधिक्यं संयुक्तद्रव्यान्तरवत् । तस्मात्तत्र तन्त्वन्तरसंयोगे सति पूर्वपटनाशस्ततः पटान्तरोत्पत्तिरित्यवश्यं स्वीकार्यम्। अवयविनः प्रत्यभिज्ञानं तु साजात्येन दीपकलिकादिवत् । नच पूर्वतन्तव एव तन्त्वन्तरसहकारात्पूर्वपटे सत्येव पटान्तरमारभन्तामिति वाच्यम् । मूर्तयोः समानदेशताविरोधात्तत्र पटद्वयासम्भवादेकदा नानाद्रव्यस्य तत्रोपलम्भस्य बाधितत्वाच्च । तस्मात्पूर्वद्रव्यस्य प्रतिबन्धकस्य विनाशे द्रव्यान्तरात्पत्तिरित्यवश्यमभ्युपेयत्वात् ॥
(प्र० टी० ) शङ्कते-"नचे"ति। समाधत्ते-"तत्रापी"ति । वेमा वायदण्डः, तस्याभिघातेन अभिघाताख्यसंयोगेन। शब्दनिमित्तकारणं संयोगिनोः परस्परविभागहेतुक्रियाजनकः संयोगोऽ"भिघात" इत्यवोचाम । अत्रैव युक्तयन्तरं दर्शयति-तन्त्वन्तरस्ये"ति । यदा तन्त्वन्तरसंयोगस्तदा न पूर्वपट: किन्तु ततोऽन्य एव । गूढाभिसन्धिमानाह-"तन्त्वन्त्वरस्ये"ति । सिद्धान्तमुपसंहरति-"तस्मादि"ति । ननु-"स एवायं पट" इति कथं प्रत्यभिज्ञा ? यदि पूर्वपटनाश इस्यत अाह-- "अवयविन" इति । "सैवेयदीपकलिके"तिवत् प्रत्यभिज्ञानं न विरुध्यत इति भावः । मूर्तयोः समानदेशे सहानवस्थानलक्षणं विरोधमनाकलव्य भ्रान्तः शङ्कते"नच पूर्वतन्तव" इति । सिद्धान्ती विरोधं विद्वान् उत्तरयति-"मूर्तयो"रिति । युक्स्यन्तरमाह-"एकदेति । प्रकरणमुपसंहरति-"तस्मादि"ति । (का०) सङ्ख्यावत्तु पृथक्त्वं स्यात्पृथक्प्रत्ययकारणम् ॥११३॥