________________
परिमाणनिरूपणम् । •mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm इत्यत्रापि परिमाणमित्यनुवर्तते । अनित्यमिति पूर्वेणान्वितम् । तथा चानित्यपरिमाणं सङ्ख्याजन्यं परिमाणजन्यं प्रचयजन्यं चेत्यर्थः॥
(प्र० टी० ) तत्परिमाणमित्यादि व्याख्यातमिव । (का०) अनित्यं द्वयणुकादौ तु सङ्ख्याजन्यमुदाहतम् ॥१११॥
[मु.] तत्र सङ्ख्याजन्यमुदाहरति--अनित्यमिति । यणुकस्य त्रसरेणोश्च परिमाणं प्रति परमाणुपरिमाणं द्वयणुकपरिमाणं वा न कारणं परिमाणस्य स्वसमानजीतोयोत्कृष्टपरिमाणजनकत्वात् । द्वयणुकस्याणुपरिमाणं तु परमारवणुत्वापेक्षया नोत्कृष्टम् । त्रसरेणुपरिमाणं तु न सजातीयम् । अतः परमाणौ द्वित्वसङ्ख्या द्वयणुकपरिमाणस्य, द्वयणुके त्रित्वसङ्ख्या च त्रसरेणुपरिमाणस्यासमवायिकारणमित्यर्थः ॥ ११०॥ १११॥ . (प्र० टी०) सङ्ख्याजन्यमुदाहरति "द्वयणुकादा"विति । सङ्ख्यामात्रजन्यमित्यर्थः। द्वयणुकपरिमाणं परमाणुगतद्वित्वसङ्ख्याजन्यं, त्रसरेणुगतं महत्परिमाणं द्वयणुकगतत्रित्वसङ्ख्याजन्यमित्यर्थः। ननु-द्वयणुकपरिमाणं प्रति परमाणुपरिमाणं, व्यणुकपरिमाणं प्रति द्वयणुकपरिमाणं वा कारणमस्त्वित्याशङ्क्याह-मूले "द्वयणुकस्येति । "स्वसमानजातीये"ति । विस्तृतं व्याख्यातं प्रत्यक्षखण्डे । स्पष्टमन्यत् ।
(का०) परिमाणं घटादौ तु परिमाणजमुच्यते । प्रचयः शिथिलाख्यो यः संयोगस्तेन जन्यते ॥११२॥
परिमाणं तूलकादौ(मु०) परिमाणजन्यं परिमाणमुदाहरति--परिमाणं घटादाविति । घटादिपरिमाणं कपालादिपरिमाणजन्यम् ॥ प्रचयजन्यमुदाहर्तुं प्रचयं निर्वक्ति प्रचय इति ॥ ११२ ॥
(प्र० टी० ) परिमाणअन्यम् = परिमाणमात्रजन्यमित्यर्थः । शिथिलत्वं संयो. गत्वव्याप्यो जातिविशेषः । अवयवानां परस्परमदृढतया योग: शिथिलसंयोगः तज्जन्यः “प्रचय" इत्यर्थः । तदुदाहरति--तृतीयं "तूलकादावि"ति । तूलकादिपरिमाणं समुच्छ्रायलक्षणं प्रचयजन्यामेत्यर्थः । तच्चानित्यम् ।
(का०) नाशस्त्वाश्रयनाशतः। (मु०) परिमाञ्चाश्रयनाशादेव नश्यतीत्याह । नाश इति । अर्थात्परिमाणस्यैब । नचावयविनाशः कथं परिमाणनाशकः सत्यप्यवयविनि त्रिचतुरादिपरमाणुविश्लेषे तदुपचये चावयविनः प्रत्यभिज्ञानेऽपि परि