________________
३८८ सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्या: "श
(मु०) अपेक्षाबुद्धिः केत्यत श्राह-अनेकेति । अयमेकोऽयमेक इत्याकारिका इत्यर्थः । इदं तु वोध्यम् । यत्रानियतैकत्वज्ञानं तत्र त्रित्वादिभिन्ना बहुत्वसङ्ख्योत्पद्यते यथा सेनावनादाविति कन्दलीकारः । प्राचार्यास्तु त्रित्वादिकमेव बहुत्वं मन्यन्ते । तथा च त्रित्वत्वादिव्यापिका बहुत्वत्वजाति तिरिच्यते । सेनावनादावुत्पन्नेऽपि त्रित्यादौ त्रित्वत्वाद्यग्रहो दोषात् । इत्थं चेतो बहुतरेयं सेनेति प्रतीतिरुपपद्यते । बहुत्वस्य सङ्ख्यान्तरत्वे तु तत्तारतम्याभावानोपपद्यतेत्यवधेयम् ॥
(प्र० टी०) प्रसङ्गादपेक्षाबुद्धिं निरूपयति-"अनेकैत्वे"ति-परममूले । तद्विवरीतुमाह-"अनेकेती"ति परिमाणं निरूपयति-अयमेक' इभिनीय दर्शयति । तत्तव्यक्तिमाननिष्ठेदन्त्वावच्चिन्नविशेष्यतानिरूपितैकत्वप्रकारताशालिनी बुद्धिरपेक्षाबुद्धि. पदार्थ इति भावः। (का०) परिमाणं भवेन्मानव्यवहारस्य कारणम् ॥ १०६॥
(मु०) परिमाणमिति । परिमितिव्यवहारासाधारणं कारणं परिमाणमित्यर्थः ॥ १० ॥
(प्र० टी० ) परिमाणं लक्षयति-परममूले "परिमाणमि"ति । कारिकास्थं लक्षणं निष्कर्षयति-"परिमिती"ति। परिमाणत्वसामान्यवत् परिमाणमित्यर्थः । (का०) अणु दीर्घ महद्धस्वमिति तद्भेद ईरितः।
(मु०) तच्चतुर्विधं अणु महद् दीर्घ हस्व चेति-- (का०) अनित्ये तदनित्यं स्यान्नित्ये नित्यमुदाहृतम् ॥११०॥
सङ्ख्यातः परिमाणाच प्रचयादपि जायते । (प्र. टी.) "अएिव"*ति-स्पष्टम् । चतुर्विधमपि परिमाणं सामान्यतो द्विविधं नित्यमनित्यश्चेति । नित्यं परमाणौ । तदेव "पारिमाण्डल्य" मित्युक्तं प्राक् ।। अनित्यमपि त्रिविधं सङ्ख्याजन्यं, परिमाणजन्यं, प्रचयजन्यञ्चेति, इत्याशयवानाह-परममूले "सङ्ख्यात" इति। ___(मु०) तत्परिमाणम् । नित्यमित्यत्र. परिमाणमित्यनुषज्यते । जायत
* अणुत्वं जातिविशेषस्तद्वदणु । भाडास्तु परमाणुध्यणुकयोरभावान्नास्त्यणुःवन् । गगनादौ प्रमाणाभावान्नास्त्येव परममहत्वमिति वदन्ति । लीलावतीकारस्तु हस्वत्वदीर्घत्वे न परिमाणान्तरे किन्त्वणुत्वमहत्वयोरेवावान्तरविशेषावित्याह । अधिकं पदार्थरत्नमालायामुक्तम् ।
+ प्राक् प्रत्यक्षपरिच्छेदे " पारिमाण्डल्यभिन्नाना" मिति १५ कारिकायां तद्व्या. ख्यायाश्चेति ।