Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas

View full book text
Previous | Next

Page 441
________________ अन्यथाख्यातिवादसर्मथनम् । mr.www.www.wwwxxram....warmmmmmm धोऽपी"ति । भ्रमज्ञानकारणीभूतज्ञानलक्षणाप्रत्यासत्तिबाधोपि नेत्यर्थः । अयं भाव:- यन्त्र रणरजतयोः युगपदुभयसन्निकर्षे सति “इमे रजते रङ्गे वा" इत्याकारकं ज्ञानं जातम्, तत्र न रजते रजतभेदग्रहो नवा रङ्गे रङ्गभेदग्रहोऽस्ति तत्र सति युगपदिन्द्रियसन्निकर्षे उक्नाकारे ज्ञाने न किञ्चिद्वाधकम् । रजतत्वेन रङ्गत्वेन वा समं संयुक्तसमवायस्य सत्वात् । तादृशञ्च ज्ञानं नोभयांशे प्रमात्मकं विशेषणवद्विशेष्य. सन्निकर्षरूपप्रमासामग्रथभावात् । किन्त्वांशिकमेव प्रमात्वम् , तस्मादेतादृशस्थले निर्वाहायावश्यमन्यथाख्यातिरेष्टव्या । स्वसिद्धान्तस्य पुष्ट्यै अख्यातिवादं निरकुर्वन् अन्यथाख्यातिवादी विचारान्तरमुत्थापयति-"अपिचे"ति । "इति ज्ञानमिति । उभयत्रैव विपरीतं ज्ञानं जातमित्यर्थः । युगपत्प्रवृत्तिनिवृत्ती-एककालावच्छेदेनैव रजते रङ्गे च प्रवृत्तिनिवृत्ती स्यातामित्यर्थः । तत्र हेतुं दर्शयति-"रङ्गे रङ्गभेदग्रह"इत्यादि। "दोषादवे"ति । त्वन्मते न्यायाभिमतभ्रमस्थलाभिषिकभेदाग्रहं प्रति दोषस्य हेतु. त्वादिति भावः। ननु-रङ्गे रजतभेदाग्रहप्रयोजकदोषस्य प्रतिबन्धकत्वान्न रङ्गे निवृत्तिः, एवं रजते रङ्ग भेदाग्रहप्रयोजकदोषस्य प्रतिबन्धकत्वान्न रजते प्रवृत्तिरिति कथमख्यातिवादनये युगपत्प्रवृत्तिनिवृत्त्योरापादनमित्यत आह-"कि"ति । भेदाग्रहस्य = व्याप्यवनेदाग्रहस्येत्यर्थः । अनुमितेिर्निराबाधा = अन्यथाख्यातिरूपानुमितिर्निराबाधेत्यर्थः । भेदाग्रहरूपकारणसत्त्वादिति भावः। अयमभिप्रायः-भो ! अख्यातिवादिन् ! भवन्मते अनुमितिज्ञानम्प्रति व्याप्यवनेदाग्रहो हेतुरस्ति ? विशिष्टज्ञानं वेति विकल्पद्वयम् । आये पक्षे वह्निव्याप्यधूमवत्पर्वतभेदाग्रहात् "हृदो वह्निमान्" इत्याकारा ऽन्यथाख्यातिरूपानुमिति: स्यात् । यद्येतद्दोषपरिजिहीर्षया द्वितीयः पक्षः स्वीक्रियते तदा "अयोगोलकं वह्निमत्" इत्याकारानुमित्यनुरोधात् अर्थात् “वह्निव्याप्यधूमवदयोगोलकम्" इत्याकारकान्यथाख्यातिरूपपरामर्शात्मकविशिष्टज्ञानववश्यमेवाङ्गीकर्तव्यं भविष्यतीति सेयमुभयतःपाशा रज्जुः । विस्तरस्तु मत्प्रणीते "अनादितवे" द्रष्टव्यः । उपसंहरति-'इत्थञ्चे"ति । * भेदागहः, असंसर्गाग्रहः, असम्बन्धाग्रह इति पर्यायाः । + तत्रत्य एष सार:-यत्र रज्वादौ सर्पादिभ्रान्तिधियः समुत्पद्यन्ते तत्र वादिनामनेके पक्षाः सन्ति । शून्यवादिमाध्यमिकानामसत्रख्यातिः । पणिकवादियोगाचाराणामात्मख्यातिः। नैयायिकानामन्यथाख्यातिः । साङ्ख्यानां प्रभाकराणाञ्च अख्याति:, औपनिषदानामनिर्वचनी. यख्यातिः। शुन्यवादिनामयमाशयः-यच्छून्यमेवैकं तत्त्वम् भावस्य विनाशाविनामावित्वात् , तदत्यन्तासत एव सर्पस्य रज्जुदेशे प्रतीतिर्नतु सतोऽन्यत्रान्यप्रकारा प्रतीतिः । विज्ञानवादिनस्तु क्षणिक विज्ञानमेव तत्तद्विषयाकारमवभासते तदेव चात्मा । तस्यैव बाह्यघटपटाद्याका.

Loading...

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486