Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas

View full book text
Previous | Next

Page 439
________________ अन्यथाख्यातिवादसमर्थनम् । दोषाः रङ्गरजतयोर्भेदाग्रहमात्रम्प्रति हेतवः । नतु वस्तुनोऽन्यथाभावम्प्रत्यपि, तेनैव भेदाग्रहेण पुरुषस्य निष्फला प्रवृत्तिर्जायत इति न रङ्गे रजतार्थिप्रवृत्यर्थमन्यथाख्याति: स्वीकरणीयेति प्रभाकराद्यख्यातिवाद्याशयः । अत्र भ्रमस्थलेऽख्यातिवादिनामियं प्रक्रिया--" इदं रजत मित्यादौ सर्वत्रैव भ्रमस्थले तिमिरादिप्रमाणदोषदूषितलोचनस्य पुरोवर्तिनि विशेष्यांशस्याग्रहात् सामान्यांशविषयकमिदमाकारं सन्निकर्षमात्रजन्यमेकं प्रत्यक्षात्मकं ज्ञानं भवति, लोभादिप्र. मातृदोषसचिवसादृश्यादिदोषोबुद्धरजतादिसंस्कारमात्रजन्यञ्च द्वितीयं ज्ञानं सत्यरजविषयकमेव स्मृतिरूपं जायते । परन्तु उभयोनियोविवेको न भवति यन्मे ज्ञानद्वयं जातमिति । तत्र विभिन्नविषयविवेकप्रतिस्पर्धी योऽयमेकं ज्ञानमित्यविवेकः स एवातदुपप्रतिष्ठो भेदाग्रहः, तेनैवान्यनान्यबुद्धिः । वस्तुतस्तु न काचिन्नान्तिरस्ति, प्रातिस्विकविषये सर्वेषां ज्ञानानां सत्यत्वात्। तेन "नेदं रजत" मित्यादिबाधानुसन्धानेन कान्ताकरादौ वर्तमानस्य सत्यस्य रजतस्य न स्वरूपतो बाधः किन्तु पुरोवर्तिनि संसर्गतो बाध इष्यते । एवमविवेक: अर्थात् प्रत्यक्षात्मकस्मरणात्मकज्ञानद्वयविवेकाभाव एव भ्रमकारणम् । अत एव पुरोवर्तिदेशावच्छेदेन शुक्लिरजतादिपदार्थेषु पुंसां निष्फला प्रवृत्तिरिति अख्यातिवादिनः प्राभाकराः साङ्ख्याश्चाहुः । "सत्यरजतस्थले वि"ति-सत्यरजतविषयकप्रवृत्तौ । विशिष्टज्ञानस्य रजतत्वप्रकारकरजतविशेष्यकस्य “इदं रजतम्" इत्याकारस्येत्यर्थः । कार्यकारणभावद्वयक. ल्पनापेक्षया लाघवात् कल्पान्तरमाह-"अस्तुवे"ति । तत्रापि-सत्यरजतगोचरप्रवृ. त्तावपि । अपिना रङ्गगोचरप्रवृत्तिपरिग्रहः । भेदाग्रह:-रङ्गरजतयोः प्रत्यक्षस्मरणात्मकज्ञानद्वयविवेकाभावो यथा विसंवादिप्रवृत्तौ हेतुः तथैव सत्यरजतस्थलेऽपि भेदज्ञानाभावः कारणमस्तु, अर्थात् स्वस्मिन् स्वस्य भेदाभावादेव रजते रजतभेदाग्रहः सत्यरजतस्थलीयप्रवृत्तिम्प्रति कारणम् । “नचान्यथाख्याति"रिति । स्पष्टम् । तत्र हेतुमाह - "रजतप्रत्यक्षकारणस्ये" त्यादि। रजतेन सह चक्षुःसन्निकर्षों रजतप्रत्यक्षकारणं श्रमस्थले रजतमेव नास्ति कुतः सन्निकर्षः कुतस्तराञ्च प्रत्यक्षं कुतस्तमाञ्च रङ्गे रजतबुद्धिरिति भावः। ज्ञानलक्षणायाः प्रत्यासत्तेः कल्पनन्तु गौरवदोषदुष्टमित्यभिमानः। इति पूर्वपक्षः। (मु०) सत्यरजतस्थले प्रवृत्ति प्रति विशिष्टज्ञानस्य हेतुतायाः क्लुप्तत्वादन्यत्रापि तत्कल्पनात् । नच संवादिप्रवृत्तौ तत्कारणं विसंवादिप्रवृत्तौ च भेदाग्रहः कारणमिति वाच्यम्, लाघवेन प्रवृत्तिमात्रे तस्य हेतुत्वकल्पनात् । इत्थं च रङ्गे रजतत्वविशिष्टबुद्धयनुरोधेन शानलक्षणप्रत्यासत्तिकल्पनेऽपि न क्षतिः फलमुखगौरवस्यादोषत्वात् । किञ्च यत्र रङ्गरजतयोरिमे रजते रङ्गे वेति झानं जातं तत्र न कारणबाधोऽपि । अपि च

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486