Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas
View full book text
________________
४१०
सविवृतिप्रमोपेताया न्यायसिद्धान्तमुक्कावण्याः
[गुणग्रन्थे
रतस्त्वम् । अनुमानप्रकारश्चायम्--पूर्वोत्पन्नरजतज्ञानमप्रमा निष्फलप्रवृत्तिजनकत्वाद् यन्नैवं तन्नैवं यथा प्रमेति सङ्क्षपः ।
(मु०) ननु सर्वेषां ज्ञानानां यथार्थत्वात्प्रमालक्षणे तद्विशेष्यकत्वं विशेषणं व्यर्थम्, नव रङ्गे रजतार्थिनः प्रवृत्तिभ्रमजन्या न स्यात् तव मते भ्रमस्याभावादिति वाच्यम्, तत्र हि दोषाधीनस्य पुरोवर्तिनि स्वत. न्त्रोपस्थितरजतभेदाग्रहस्य हेतुत्वात्, सत्यरजतस्थले तु विशिष्टज्ञानस्य सत्वात्तदेव कारणम्, अस्तु वा तत्रापि भेदाग्रहः स एव कारणमिति, नचाऽन्यथाख्यातिः सम्भवति, रजतप्रत्यक्षकारणरजतसन्निकर्षस्याभावात् , रङ्गे रजतबुद्धरनुपपत्तेरिति चेन्न।
(प्र. टी.) उक्तं प्रमालक्षणमसहमानोऽख्यातिवादी "प्रभाकरः” शङ्कते"नन्वि"ति । "यथार्थत्वादि"ति-संवादिप्रवृत्तिजनकत्वादित्यर्थः । प्रमालक्षणे "तद्विशेष्यकत्वे सति" इति विशेषणं व्यर्थम् = निष्फलं व्यावल्या अन्यथाख्याते. रभावादित्यर्थः।
इदमाकूतकम्-भ्रमस्थले नैयायिकोऽन्यथाख्यातिं मन्यते । यदि "तत्प्रकारक ज्ञानं प्रमे"ति लक्षणं स्यात् तदान्यथाख्यातिरूपे भ्रमस्थले ( शुक्तिरजतादौ ) उक्तलक्ष. णातिव्याप्तिः स्यात् तद्वारणायोक्नं विशेषणं दत्तम् । परमन्यथाख्यातिरेव नास्ति नाम कश्चित्पदार्थः, अर्थात् "ख्यानं = कथनं भानं वा ख्याति: अन्यथा प्रकारान्तरेण ख्याति: प्रतीतिरन्यथाख्याति " रिति समाख्याबलात् अन्यप्रकारवतो वस्तुनोऽन्यप्रका. रेण प्रतीतिरेवान्यथाख्यातिरित्युक्तं भवति । परन्तु यद् वस्तु यथा भवति तत्तथैव प्रतीयते नान्यप्रकारेण तस्य प्रत्ययः, ज्ञानमात्रस्य यथार्थत्वात् तस्मादुक्तं प्रमालक्षणे विशेषणं व्यर्थमेवेति वदति प्रभाकरः ( पूर्वपक्षी ) । नैयायिकः प्रभाकरम्प्रति शङ्कते-"नन्वि" .ति। रजतर्थिनः = रजतसंस्कारवतः, प्रवृत्तिः या इष्टसाधनताज्ञानजन्या सा भ्रमजन्या न स्यात् । तत्र हेतुमाह-"तव मत" इत्यादि । भ्रमस्य = अन्यथाख्यातेः । प्रभाकरः समाधत्ते-“तत्र ही"ति । तत्र = रङ्गग्गोचरविसंवादिरजतार्थिप्रवृत्तौ । अर्थात् पुरो. वर्तिनि रङ्गे इदं रजतम्" इतिज्ञानवतो रजतार्थिनः पुरुषस्य या निष्फला प्रवृत्तिर्जाता, न तत्र भवदभिमतो भ्रमो हेतुः, किन्तु तमोलोभादिदोषकारणात् स्वतन्त्रसंस्कारोपस्थितानां रजतादिपदार्थानां य: भेदाग्रहः = विवेकज्ञानाभावः स तत्र-विसं. वादिप्रवृत्तौ कारणम् ।
प्रमातृगता लोभादिदोषाः, प्रमाणगता: पित्तादिदोषाः, प्रमेयगताः सादृश्यादि दोषाः, एते त्रयो दोषा यत्र भवन्ति तत्रैव रङ्गादिषु पदार्थेषु रजतादिरूपा बुद्धिर्धमात्मिका जायत इति तव मतम् । वस्तुतस्तु "ज्ञेयाधीनं ज्ञान" मिति परो नियमोऽस्ति । तद. नेन नियमेन विसंवादिस्थले ज्ञानं ज्ञेयाधीनमेव स्यात्, परमेतादृशस्थले पूर्वोक्का

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486