Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas

View full book text
Previous | Next

Page 443
________________ न्याप्तिग्रहोपायः। ४९ ग्रहे कारणम् । व्यभिचारग्रहस्य व्याप्तिग्रहे प्रतिबन्धकत्वात्सदभावः कारणमित्यर्थः। एवमन्वयव्यतिरेकाभ्यां सहचारग्रहस्यापि हेतुता । भूयोद. र्शनं तुन कारणं व्यभिचारास्फूर्ती सकृद्दर्शनेऽपि क्वचिद्वयाप्तिग्रहात् क्वचिद्वयभिचारशङ्काविधूननद्वारा भूयोदर्शनमुपयुज्यते । यत्र तु भूयोदशनादपि शङ्का नापैति तत्र विपक्षबाधकतर्कोऽपेक्षितः। तथाहि । वह्निविरहिण्यपि धूमः स्यादिति यद्याशका भवति तदा स वह्निधूमयोः कार्य: कारणभावस्थ प्रतिसन्धानानिवर्तते । यद्ययं वह्निमान स्यात्तदा धूमवान्न स्यात्कारणं विना कार्यानुत्पत्तेः । यदि च कचित्कारणं विना कार्य भविष्यति तदाऽहेतुक एव भविष्यतीति तत्राप्याशङ्का भवेत्तदा सा व्याघातादपसारणीया। यदि कारणं विना कार्य स्यात्तदा धूमार्थ वढेस्तप्त्यर्थे भोजनस्य वा नियमत उपादानं तवैव न स्यादिति । यत्र स्वत एवं शङ्का नावतरति तत्र न तर्कापेक्षापीति तदिदमुक्तं तर्कः क्वचिच्छङ्कानिवर्तक इति । १३७॥ विविधो ह्यर्थः प्रत्यक्षः परोक्षश्च । तत्र यो बुद्धौ साक्षादात्मीयरूपं निवेशयति स प्रत्यक्षः, परोक्षस्तु बुद्धौ साक्षात्स्वरूपोपधानसामर्थ्यरहितोऽयुक्तप्रतिपत्तिश्च । नत्वन्यदर्शनेऽन्यकल्पना युक्ताऽतिप्रसङ्गात् । नच वाच्यं नान्तरीयकत्वेनान्योपि अन्यं गमयेदिति, यतः स प्रतिबद्धस्वभावो यद्रुपो ज्ञात: तथाविधसन्निधानं सूचयेत् । प्रतिबन्धश्च दर्शनमात्रादवसेय: स्यात्, तथा सति ‘स श्यामो मित्रातनयत्वात् परिदृश्यमानमित्रातनयस्तोमवद्" इत्यप्यनुमानं स्यात् । इहापि वर्तते दर्शनादर्शने । तस्मात् तादात्म्यतदुत्पत्तिनिबन्धन एव प्रतिबन्धः । उक्तञ्च कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् । अविनाभावनियमोऽदर्शनान न दर्शनात् ॥ इति । अत्र ब्रमः-सत्यं यत्किञ्चित्वचिद् दृष्टं तस्य यत्र प्रतिबन्धः तद्विदः (प्रमातुः ) तस्य तद्गमकं तत्रेत्यनुजानीमः । परं स एव तु प्रतिबन्धो न तावदुत्पत्तिमात्राधीनः । अनुमिमते स्यनुमातारो रसादन्यद्पं रससमानकालं नचानयोरस्ति कार्यकारणभावः तादात्म्यं वा, तस्मादव्य- . मिचरितसम्बन्ध एव प्रतिबन्धः । सोऽयं कार्यकारणयोर्वा स्यात् तादात्म्यवतोर्वा स्यादन्ययोर्वा ययोः कयोश्चिदिति न तन्मात्रग्रहो युक्तः। अयमभिसन्धिः -यस्य हि येन तादात्म्यम् , स तस्य हेतुरिति नायं नियम: वृक्षोऽयं शिंशपा शिंशपेयं वृक्ष इति वृक्षत्वशिशपात्वयोस्तादाम्ये समानेऽपि वृक्षत्वस्य शिशपात्वाहेतुत्वात् । नापि यस्य यत् कार्य तस्य तल्लिङ्गमिति नियमः, धूमवत्तिपार्थिवत्वस्य वन्हिकार्यत्वेऽपि धूमवत्तदहेतुत्वात् । नाप्यर्थान्तरमर्थान्तरस्य हेतुरिति नियमः धूमस्यार्थान्तरत्वेऽपि रासमादिहेतुत्वाभावात् । किन्तु "वस्तुस्वभावात् यो हि येन प्रतिवः सन् तद्भावे भवति, तदभावे च न भवति स एव तस्य हेतुः, तस्यैव च सहचारग्रहो व्याप्तिग्रहोपाय" इति सार्वत्रिको नियमः, न तत्र कार्यत्वकारणत्वसंयोगसमवायतादात्म्यादेःप्रवेशः। तावतैव सर्वत्र निर्वाहसम्मवे तत्प्रवेशस्याकिन्चित्करत्वात् । उक्तश्च प्रशस्तपादसद्महे

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486