________________
न्याप्तिग्रहोपायः।
४९
ग्रहे कारणम् । व्यभिचारग्रहस्य व्याप्तिग्रहे प्रतिबन्धकत्वात्सदभावः कारणमित्यर्थः। एवमन्वयव्यतिरेकाभ्यां सहचारग्रहस्यापि हेतुता । भूयोद. र्शनं तुन कारणं व्यभिचारास्फूर्ती सकृद्दर्शनेऽपि क्वचिद्वयाप्तिग्रहात् क्वचिद्वयभिचारशङ्काविधूननद्वारा भूयोदर्शनमुपयुज्यते । यत्र तु भूयोदशनादपि शङ्का नापैति तत्र विपक्षबाधकतर्कोऽपेक्षितः। तथाहि । वह्निविरहिण्यपि धूमः स्यादिति यद्याशका भवति तदा स वह्निधूमयोः कार्य: कारणभावस्थ प्रतिसन्धानानिवर्तते । यद्ययं वह्निमान स्यात्तदा धूमवान्न स्यात्कारणं विना कार्यानुत्पत्तेः । यदि च कचित्कारणं विना कार्य भविष्यति तदाऽहेतुक एव भविष्यतीति तत्राप्याशङ्का भवेत्तदा सा व्याघातादपसारणीया। यदि कारणं विना कार्य स्यात्तदा धूमार्थ वढेस्तप्त्यर्थे भोजनस्य वा नियमत उपादानं तवैव न स्यादिति । यत्र स्वत एवं शङ्का नावतरति तत्र न तर्कापेक्षापीति तदिदमुक्तं तर्कः क्वचिच्छङ्कानिवर्तक इति । १३७॥ विविधो ह्यर्थः प्रत्यक्षः परोक्षश्च । तत्र यो बुद्धौ साक्षादात्मीयरूपं निवेशयति स प्रत्यक्षः, परोक्षस्तु बुद्धौ साक्षात्स्वरूपोपधानसामर्थ्यरहितोऽयुक्तप्रतिपत्तिश्च । नत्वन्यदर्शनेऽन्यकल्पना युक्ताऽतिप्रसङ्गात् । नच वाच्यं नान्तरीयकत्वेनान्योपि अन्यं गमयेदिति, यतः स प्रतिबद्धस्वभावो यद्रुपो ज्ञात: तथाविधसन्निधानं सूचयेत् । प्रतिबन्धश्च दर्शनमात्रादवसेय: स्यात्, तथा सति ‘स श्यामो मित्रातनयत्वात् परिदृश्यमानमित्रातनयस्तोमवद्" इत्यप्यनुमानं स्यात् । इहापि वर्तते दर्शनादर्शने । तस्मात् तादात्म्यतदुत्पत्तिनिबन्धन एव प्रतिबन्धः । उक्तञ्च
कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् ।
अविनाभावनियमोऽदर्शनान न दर्शनात् ॥ इति । अत्र ब्रमः-सत्यं यत्किञ्चित्वचिद् दृष्टं तस्य यत्र प्रतिबन्धः तद्विदः (प्रमातुः ) तस्य तद्गमकं तत्रेत्यनुजानीमः । परं स एव तु प्रतिबन्धो न तावदुत्पत्तिमात्राधीनः । अनुमिमते स्यनुमातारो रसादन्यद्पं रससमानकालं नचानयोरस्ति कार्यकारणभावः तादात्म्यं वा, तस्मादव्य- . मिचरितसम्बन्ध एव प्रतिबन्धः । सोऽयं कार्यकारणयोर्वा स्यात् तादात्म्यवतोर्वा स्यादन्ययोर्वा ययोः कयोश्चिदिति न तन्मात्रग्रहो युक्तः। अयमभिसन्धिः -यस्य हि येन तादात्म्यम् , स तस्य हेतुरिति नायं नियम: वृक्षोऽयं शिंशपा शिंशपेयं वृक्ष इति वृक्षत्वशिशपात्वयोस्तादाम्ये समानेऽपि वृक्षत्वस्य शिशपात्वाहेतुत्वात् । नापि यस्य यत् कार्य तस्य तल्लिङ्गमिति नियमः, धूमवत्तिपार्थिवत्वस्य वन्हिकार्यत्वेऽपि धूमवत्तदहेतुत्वात् । नाप्यर्थान्तरमर्थान्तरस्य हेतुरिति नियमः धूमस्यार्थान्तरत्वेऽपि रासमादिहेतुत्वाभावात् । किन्तु "वस्तुस्वभावात् यो हि येन प्रतिवः सन् तद्भावे भवति, तदभावे च न भवति स एव तस्य हेतुः, तस्यैव च सहचारग्रहो व्याप्तिग्रहोपाय" इति सार्वत्रिको नियमः, न तत्र कार्यत्वकारणत्वसंयोगसमवायतादात्म्यादेःप्रवेशः। तावतैव सर्वत्र निर्वाहसम्मवे तत्प्रवेशस्याकिन्चित्करत्वात् । उक्तश्च प्रशस्तपादसद्महे