________________
४१४
सविवृतिप्रभोपेताया म्पायसिद्धान्समुझावल्या:
[गुणान्ये
प्रत्यक्षमेव प्रमाणम्="रॉ रजततयाऽवेदिषम्" इत्याकारकं प्रत्यक्षमनुव्यवसायात्मकमि. त्यर्थः। 'सक्षेपः" इति । विद्यमानेऽपि भेदग्रहे श्राहार्यप्रत्यक्षोत्पादादिच्छाया उत्तेजकत्वं वाच्यम् । इच्छानामुत्तेजकत्वानुरोधेन चानुमितित्वादीनामेव कार्यतावच्छेदकत्वात् । प्रवृत्तित्वावच्छिन्नम्प्रति भेदग्रहाभावत्वेन पृथक्कारणत्वे गौरवापत्या विशिष्टज्ञानत्वेन हेतुता कल्पनीयेति विसंवादिप्रवृत्त्यनुरोधेनान्यथाख्यातिारेति भावः ॥ १३५,१३६ ॥ (का०) व्यभिचारस्याग्रहोऽपि सहचारग्रहस्तथा ।
हेतुर्व्याप्तिग्रहे तर्कः कचिच्छङ्कानिवर्तकः ॥ १३७ ।। (मु०) पूर्व व्याप्तिरुक्ता तद्ग्रहोपायस्तु न दर्शित इत्यतस्तं दर्शयति-व्यभिचारस्येति । व्यभिचाराग्रहः * सहचारग्रहश्च व्याप्ति
रवत् रज्जौ सर्पाकारतयावभासनमित्यात्मभूतस्य विज्ञानस्यैव ख्वातिर्भानं कथनं वेत्येवमात्मख्यातिमाहुः ।
नैयायिकानामन्यथाख्यातिवादः। स च द्विप्रकारः -विलादिप्रदेशे सत्यस्यैव सर्पस्य दोषसामर्थ्यात् पुरोवर्तिनि प्रदेशे भानमित्येक: पक्षः। नच वाच्यं दोषा: सामर्थ्य निघ्नन्ति नतद्दीपयन्ति पित्तकफादिदोषैर्जाठराग्नेर्मान्धदर्शनात् तन्निर्दोषान्नेत्राव्यवहिनविप्रकृष्टपदार्थस्यापि भान न भवति, किमु वक्तव्यं तिमिरादिदोषाक्रान्ताऽतिविप्रकृष्टदेशवतिसर्पादिपदार्थानां पुरोवर्तिनि देशे भानमिति, ? कचिदोषेण सामर्थ्याधिक्यस्यापि दर्शनात् । यथा भस्सन्तकादिरोगेषु पित्ताधिक्येन जाठराग्मेदीप्तिं पश्यामः, तस्माद्विप्रकृष्टदेशस्थितस्यैव सत्य सादेः पुरोवर्तिरज्वादिदेशे भानमित्येकविधान्यथाख्यातिः।
चिन्तामणिकारादिनन्यनैयायिकाः तद्धर्माभाववति पदार्थे दोषादिसाचिव्यात् तद्धर्मवतया भानमेवान्यथाख्यातिरित्याहुः । अख्यादिवादिनां मतं मूले दर्शितप्रायम् । वेदान्तिनस्तु -यदि रज्जुदेशेऽत्यमसन् सर्पः तर्हि बन्ध्यापुत्रवन्न भातिपथमवतरेत् , यदि च बिलादिप्रदेशवत्सन्नव तर्हि अधिष्ठानभूतरज्जूसाक्षात्कारोत्तरं "नायं सर्प" इति ज्ञानेन तस्य बाधो न भवेत् नहि सत्यवस्तुनो शानबाधो दृष्टचर:, नापि च रज्जूसर्पस्य सदसवे धर्मों, एकस्मिन्धर्मिणि तयोयोर्विरोधात्, तस्मात्सत्वेनासत्तेवन सदसत्त्वाभ्याञ्च वक्तुमशक्यतया प्रतीतिबाधान्यथानुपपत्त्या भनिवर्चनीयस्यैव सादेर्भानं ख्यातिरित्यनिर्वचनीयख्यातिरित्याहुः । ख्यातीनां कठिनाः साधकबाधकयुक्तयोऽद्वैतसिद्धयादिग्रन्थेषु मत्प्रणीतायां “वेदान्ततत्त्वसमीक्षाया "न्च बाहुल्येन प्रपञ्चिताः। अन्यथाख्यातिवादस्तु अन्यथाख्यातिवादे गदाधरभट्टप्रणीते सविस्तरं निरूपितोऽस्ति । मयात्र केवलं बालबुद्धिवृद्धये परिचयमानं दत्तमिति शिवम् ।
केचित्तु अविनामावं ( व्याप्तिसम्बन्धम् ) तादात्म्यतदुत्पत्तिनिबन्धनमानाङ्गमाहुः अर्थात् यस्य येम तादात्म्यं, यस्य वा यत उत्पत्तिस्तयोरेवाऽविनाभावो नतु सहचरितमात्रयोः ।