________________
अन्यथाख्यातिवादसर्मथनम् । mr.www.www.wwwxxram....warmmmmmm धोऽपी"ति । भ्रमज्ञानकारणीभूतज्ञानलक्षणाप्रत्यासत्तिबाधोपि नेत्यर्थः ।
अयं भाव:- यन्त्र रणरजतयोः युगपदुभयसन्निकर्षे सति “इमे रजते रङ्गे वा" इत्याकारकं ज्ञानं जातम्, तत्र न रजते रजतभेदग्रहो नवा रङ्गे रङ्गभेदग्रहोऽस्ति तत्र सति युगपदिन्द्रियसन्निकर्षे उक्नाकारे ज्ञाने न किञ्चिद्वाधकम् । रजतत्वेन रङ्गत्वेन वा समं संयुक्तसमवायस्य सत्वात् । तादृशञ्च ज्ञानं नोभयांशे प्रमात्मकं विशेषणवद्विशेष्य. सन्निकर्षरूपप्रमासामग्रथभावात् । किन्त्वांशिकमेव प्रमात्वम् , तस्मादेतादृशस्थले निर्वाहायावश्यमन्यथाख्यातिरेष्टव्या । स्वसिद्धान्तस्य पुष्ट्यै अख्यातिवादं निरकुर्वन् अन्यथाख्यातिवादी विचारान्तरमुत्थापयति-"अपिचे"ति । "इति ज्ञानमिति । उभयत्रैव विपरीतं ज्ञानं जातमित्यर्थः । युगपत्प्रवृत्तिनिवृत्ती-एककालावच्छेदेनैव रजते रङ्गे च प्रवृत्तिनिवृत्ती स्यातामित्यर्थः । तत्र हेतुं दर्शयति-"रङ्गे रङ्गभेदग्रह"इत्यादि। "दोषादवे"ति । त्वन्मते न्यायाभिमतभ्रमस्थलाभिषिकभेदाग्रहं प्रति दोषस्य हेतु. त्वादिति भावः।
ननु-रङ्गे रजतभेदाग्रहप्रयोजकदोषस्य प्रतिबन्धकत्वान्न रङ्गे निवृत्तिः, एवं रजते रङ्ग भेदाग्रहप्रयोजकदोषस्य प्रतिबन्धकत्वान्न रजते प्रवृत्तिरिति कथमख्यातिवादनये युगपत्प्रवृत्तिनिवृत्त्योरापादनमित्यत आह-"कि"ति । भेदाग्रहस्य = व्याप्यवनेदाग्रहस्येत्यर्थः । अनुमितेिर्निराबाधा = अन्यथाख्यातिरूपानुमितिर्निराबाधेत्यर्थः । भेदाग्रहरूपकारणसत्त्वादिति भावः।
अयमभिप्रायः-भो ! अख्यातिवादिन् ! भवन्मते अनुमितिज्ञानम्प्रति व्याप्यवनेदाग्रहो हेतुरस्ति ? विशिष्टज्ञानं वेति विकल्पद्वयम् । आये पक्षे वह्निव्याप्यधूमवत्पर्वतभेदाग्रहात् "हृदो वह्निमान्" इत्याकारा ऽन्यथाख्यातिरूपानुमिति: स्यात् । यद्येतद्दोषपरिजिहीर्षया द्वितीयः पक्षः स्वीक्रियते तदा "अयोगोलकं वह्निमत्" इत्याकारानुमित्यनुरोधात् अर्थात् “वह्निव्याप्यधूमवदयोगोलकम्" इत्याकारकान्यथाख्यातिरूपपरामर्शात्मकविशिष्टज्ञानववश्यमेवाङ्गीकर्तव्यं भविष्यतीति सेयमुभयतःपाशा रज्जुः । विस्तरस्तु मत्प्रणीते "अनादितवे" द्रष्टव्यः । उपसंहरति-'इत्थञ्चे"ति ।
* भेदागहः, असंसर्गाग्रहः, असम्बन्धाग्रह इति पर्यायाः ।
+ तत्रत्य एष सार:-यत्र रज्वादौ सर्पादिभ्रान्तिधियः समुत्पद्यन्ते तत्र वादिनामनेके पक्षाः सन्ति । शून्यवादिमाध्यमिकानामसत्रख्यातिः । पणिकवादियोगाचाराणामात्मख्यातिः। नैयायिकानामन्यथाख्यातिः । साङ्ख्यानां प्रभाकराणाञ्च अख्याति:, औपनिषदानामनिर्वचनी. यख्यातिः।
शुन्यवादिनामयमाशयः-यच्छून्यमेवैकं तत्त्वम् भावस्य विनाशाविनामावित्वात् , तदत्यन्तासत एव सर्पस्य रज्जुदेशे प्रतीतिर्नतु सतोऽन्यत्रान्यप्रकारा प्रतीतिः । विज्ञानवादिनस्तु क्षणिक विज्ञानमेव तत्तद्विषयाकारमवभासते तदेव चात्मा । तस्यैव बाह्यघटपटाद्याका.