________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावस्थाः
[ गुणमन्थे
यत्र रङ्गरजतयोरिमे रजतरङ्गे इति ज्ञानं तत्रोभयत्र युगपत्प्रवृत्तिनिवृत्ती स्यातां, रङ्गे रङ्गभेदग्रहे रजते रजतभेदग्रहे चान्यथाख्यातिभयात्, त्वन्मते दोषादेव रङ्गे रजतभेदाग्रहस्य रजते रङ्गभेदाग्रहस्य च सत्त्वात् । किञ्चानुमिति प्रति भेदाग्रहस्य हेतुत्वे जल हदे वह्निव्याप्यधूमवद्भेदाग्रहा दनुमितिर्निराबाधा । यदि च विशिष्टज्ञानं कारणं तदाऽयोगोलके वह्निव्याप्यधूमज्ञानमनुमित्यनुरोधादापतितम् । सेयमुभयतः पाशा रज्जुः । इत्थं चान्यथाख्याती प्रत्यक्षमेव प्रमाणं रङ्गं रजततयाऽवेदिषमित्यनुभवादिति सङ्क्षेपः ॥ १३५ ॥ १३६ ॥
-
४१२
लाघ
नैयायिको निराकरोति " इतिचेन्न " इति । सत्यरजतस्थले प्रवृत्तिम्प्रति = संवादिप्रवृत्तिम्प्रतीत्यर्थः । विशिष्टज्ञानस्य = तद्वद्विशेशष्यकत्वे सति तत्प्रकारकत्वरूपस्य, क्लृप्तत्वात् = स्पष्टसिद्धत्वात् । अन्यत्रापि = रङ्गगोचररजतार्थिप्रवृत्तावपि । तत्कल्पनातू = विशिष्टज्ञानहेतुत्वकल्पनात् । न चान्न मानाभाव इति वाच्यम् " रङ्गे रजतार्थिप्रवृत्ति: इष्टप्रवृत्तिविषय विशिष्टज्ञानसाध्या प्रवृत्तित्वात् रजते रजतत्वप्रकारकप्रवृत्तिवत् " इत्यनुमानस्यैव तत्र मानत्वात् । श्रप्रयोजकत्वमाशङ्कते - "नचे "ति । परिहरति - " ad "ति । संवादिविसंवादिभेदेन कार्यकारणभावद्वयमपेच्य प्रवृत्तिमात्रे विशिष्टज्ञानस्यैव हेतुत्वकल्पनाला घवेनेत्यर्थः । रजतांशेऽपि सन्निकर्षाभावान्नान्यथाख्यातिः सम्भवतीति प्राभाकरोकं दूषणमुद्धरति - " इत्थञ्चेति प्रवृत्तिमात्रम्प्रति विशिष्टज्ञानस्य हेतुत्वसिद्ध चेत्यर्थः । अर्थात् रङ्गे रजत्वबुद्ध्यनुरोधेन रजतेन सह ज्ञानलक्षणा प्रत्यासत्तिरूपोऽलौकिकः सन्निकर्षः " चतुः संयुक्रमनः संयुक्रात्मसमवेतस्मृतिविषयत्वरूपोऽवश्यकल्पनीयः ।
अयमभिसन्धि: -- यत्रेन्द्रिययोग्यपदार्थेन सहेन्द्रियसन्निकर्षकाल एवायोग्य पदार्थस्यापि स्मरणं जायते तत्रेन्द्रियसम्बद्धपदार्थस्य स्मृतिगोचरपदार्थस्य चाभिन्नं (एकमेव ) ज्ञानं जायते इति नियम:, तेन स्मरणांशे तज्ज्ञानमलौकिकसन्निकर्षजन्यं इन्द्रियसम्बन्धांशे च लौकिकमिति व्यवस्था । तथाच प्रकृतेऽपि पूर्वानुभवजन्यं "रजतम्" इत्याकारकं प्रत्यक्षं जायते तत्राप्यन्वयव्यतिरेकौ स्तः, श्रत एव रङ्गे " इंदं रजतम्" इत्याकारकचाक्षुषज्ञानम्प्रति रजतानुभवजन्यसंस्कारजन्या स्मृतिरेव कारणम् । श्रनया रीत्या एवंविधस्थले “चतु:संयुक्रमनः संयुक्तात्मसमवेतस्मृतिज्ञानविषयस्वाख्यरूपा" ज्ञानल क्षणाख्या प्रत्यासत्तिरवश्यमेवाङ्गीकार्या यथा च "सुरभिचन्दन" मित्यादौ । अन्यथा विशिष्टबुद्धिर्नोदयात् एवञ्चान्यथाख्यातौ न किञ्चिद्वाधकं पश्यामः इत्याशयेनाह -- "ज्ञानलक्षणा प्रत्यासत्तिकल्पनेऽपि न चतिरिति । " फलमुखेति । कार्यकारणभामहात्मफलात्पूर्वं गौरवस्या निर्णयात् गौरवसन्देहस्य चाप्रतिबन्धकत्वादिति भावः ।
"
प्रकारान्तरेण भ्रमज्ञानस्यावश्यकतां दर्शयति - " कि "ति । " न कारणबा