________________
अन्यथाख्यातिवादसमर्थनम् ।
दोषाः रङ्गरजतयोर्भेदाग्रहमात्रम्प्रति हेतवः । नतु वस्तुनोऽन्यथाभावम्प्रत्यपि, तेनैव भेदाग्रहेण पुरुषस्य निष्फला प्रवृत्तिर्जायत इति न रङ्गे रजतार्थिप्रवृत्यर्थमन्यथाख्याति: स्वीकरणीयेति प्रभाकराद्यख्यातिवाद्याशयः ।
अत्र भ्रमस्थलेऽख्यातिवादिनामियं प्रक्रिया--" इदं रजत मित्यादौ सर्वत्रैव भ्रमस्थले तिमिरादिप्रमाणदोषदूषितलोचनस्य पुरोवर्तिनि विशेष्यांशस्याग्रहात् सामान्यांशविषयकमिदमाकारं सन्निकर्षमात्रजन्यमेकं प्रत्यक्षात्मकं ज्ञानं भवति, लोभादिप्र. मातृदोषसचिवसादृश्यादिदोषोबुद्धरजतादिसंस्कारमात्रजन्यञ्च द्वितीयं ज्ञानं सत्यरजविषयकमेव स्मृतिरूपं जायते । परन्तु उभयोनियोविवेको न भवति यन्मे ज्ञानद्वयं जातमिति । तत्र विभिन्नविषयविवेकप्रतिस्पर्धी योऽयमेकं ज्ञानमित्यविवेकः स एवातदुपप्रतिष्ठो भेदाग्रहः, तेनैवान्यनान्यबुद्धिः । वस्तुतस्तु न काचिन्नान्तिरस्ति, प्रातिस्विकविषये सर्वेषां ज्ञानानां सत्यत्वात्। तेन "नेदं रजत" मित्यादिबाधानुसन्धानेन कान्ताकरादौ वर्तमानस्य सत्यस्य रजतस्य न स्वरूपतो बाधः किन्तु पुरोवर्तिनि संसर्गतो बाध इष्यते । एवमविवेक: अर्थात् प्रत्यक्षात्मकस्मरणात्मकज्ञानद्वयविवेकाभाव एव भ्रमकारणम् । अत एव पुरोवर्तिदेशावच्छेदेन शुक्लिरजतादिपदार्थेषु पुंसां निष्फला प्रवृत्तिरिति अख्यातिवादिनः प्राभाकराः साङ्ख्याश्चाहुः ।
"सत्यरजतस्थले वि"ति-सत्यरजतविषयकप्रवृत्तौ । विशिष्टज्ञानस्य रजतत्वप्रकारकरजतविशेष्यकस्य “इदं रजतम्" इत्याकारस्येत्यर्थः । कार्यकारणभावद्वयक. ल्पनापेक्षया लाघवात् कल्पान्तरमाह-"अस्तुवे"ति । तत्रापि-सत्यरजतगोचरप्रवृ. त्तावपि । अपिना रङ्गगोचरप्रवृत्तिपरिग्रहः । भेदाग्रह:-रङ्गरजतयोः प्रत्यक्षस्मरणात्मकज्ञानद्वयविवेकाभावो यथा विसंवादिप्रवृत्तौ हेतुः तथैव सत्यरजतस्थलेऽपि भेदज्ञानाभावः कारणमस्तु, अर्थात् स्वस्मिन् स्वस्य भेदाभावादेव रजते रजतभेदाग्रहः सत्यरजतस्थलीयप्रवृत्तिम्प्रति कारणम् । “नचान्यथाख्याति"रिति । स्पष्टम् । तत्र हेतुमाह - "रजतप्रत्यक्षकारणस्ये" त्यादि। रजतेन सह चक्षुःसन्निकर्षों रजतप्रत्यक्षकारणं श्रमस्थले रजतमेव नास्ति कुतः सन्निकर्षः कुतस्तराञ्च प्रत्यक्षं कुतस्तमाञ्च रङ्गे रजतबुद्धिरिति भावः। ज्ञानलक्षणायाः प्रत्यासत्तेः कल्पनन्तु गौरवदोषदुष्टमित्यभिमानः। इति पूर्वपक्षः।
(मु०) सत्यरजतस्थले प्रवृत्ति प्रति विशिष्टज्ञानस्य हेतुतायाः क्लुप्तत्वादन्यत्रापि तत्कल्पनात् । नच संवादिप्रवृत्तौ तत्कारणं विसंवादिप्रवृत्तौ च भेदाग्रहः कारणमिति वाच्यम्, लाघवेन प्रवृत्तिमात्रे तस्य हेतुत्वकल्पनात् । इत्थं च रङ्गे रजतत्वविशिष्टबुद्धयनुरोधेन शानलक्षणप्रत्यासत्तिकल्पनेऽपि न क्षतिः फलमुखगौरवस्यादोषत्वात् । किञ्च यत्र रङ्गरजतयोरिमे रजते रङ्गे वेति झानं जातं तत्र न कारणबाधोऽपि । अपि च