________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्कावस्याः
[गुणग्रन्थे
(प्र. टी.) अनुमितिप्रकरणे व्याप्तिरुता तद्ग्रहोपायमत्राह-परममूले. 'व्यभिचारस्ये"ति । हेतुसत्वे साध्याभावो व्यभिचारः तस्य ग्रहो ज्ञानम् , सहचारः हेतुना सह साध्यसामानाधिकरण्यं तस्य ग्रहो ज्ञानम्, एतद्वयं व्याप्तिग्रहे हेतु: कारणमित्यर्थः। व्यभिचारो हि व्याप्तिविघटको भवति अतः कारणकोटौ तदभावस्यादरः । व्यभिचारग्रह इव व्यभिचारशङ्कापि व्याप्तिग्रहं प्रतिबन्धातीत्यतस्तन्निराकरणोपायमाह-"तर्क" इति । शङ्कानिवर्तक:-ज्यभिचारशङ्कानिवर्तक इत्यर्थ इति व्याख्याता कारिका।
व्यभिचाराग्रहस्य व्याप्तिग्राहकतामुपपादयति-मूले "व्यभिचाराग्रहस्ये"ति। सहचारग्रहस्यापि तामुपपादयति-"एवमि"ति “अन्वयव्यतिरेकाभ्याम"ति। "तत्तद्वन्यादिसत्वे तत्तद्भूमादिसत्वम्, तत्तद्वन्यायभावे तत्त मायभाव" इल्याकारकान्वयव्यतिरेकद्वारा सहचारज्ञानस्यापि व्याप्तिग्राहकत्वमिति भावः।
यद्यप्यत्र-धूमादिसत्वे वह्नयाधसत्त्वम् , वह्नाद्यभाव धूमाद्यभावे इत्येवं सहचारः प्रदर्यः तथापि समन्याप्तिज्ञानाय तत्तद्वाह्नयादेस्तत्तद्धृमादेरुपादानमिति बोध्यम् ।
केचित्तु भूयोदर्शनं व्याप्तिज्ञानम्प्रति कारणं मन्यन्ते तद्रूषयति-"भूयोदर्शनन्वि "ति । व्यतिरेकव्यभिचारमाह-"सकृद्दर्शनेपी"ति । कथं तर्हि प्राक्कनैर्भू योदर्शनस्योपयोगो मत इत्यत आह-"क्वचिद्वयभिचारशङ्के"ति । भूयोदर्शनस्याहेतुत्वेऽपि क्वचित्प्रयोजकतया तदादर इति भावः ।
_ “यत्र यन्त्र पार्थिवत्वं तत्र तत्र लोहलेख्यत्वम्" इति भूयोदर्शनेऽपि क्वचिद्वज्रहीरकादौ व्यभिचारशङ्कोदयात्तथोक्किरिति ज्ञेयम् ।
कार्यमानम्प्रति प्रतिबन्धकाभावस्य कारणत्वमिति नियमात् यत्रैकवारं सहचारज्ञाने व्यभिचारशङ्का नापैति तत्र भूयोदर्शनस्योपयोग इति तु रहस्यम् ।
परन्तु यदि भूयोदर्शनादपि दोषमाहात्म्यात् शङ्का नापगच्छति तत्र तर्कस्याप्यपेक्षा इत्याह--'बाधकतर्कोऽपेक्षित"इति । तदेतद्दर्शयति--"तथाही'ति । शङ्काकारं दर्शयति-"क्वचिद्वह्निविरहिण्यपी"ति । प्रतिसन्धानान् = ज्ञानात् विचारादिति यावत् । “यद्ययमि"ति--अयम् = धूमवान् पर्वतः । तथाच "धूमो यदि वहिव्यभिचारी स्यात् वह्निजन्यो न स्यादि"ति तर्कस्य परिनिष्ठित आकारः । उनमर्थ विशदयति--"यदिचे"ति । अयं भावः--यदि प्रथमशङ्कानिवृत्तौ पुन: कश्चिच्छङ्केत "यत्कारणं विनैव कार्य कुतो न मन्येत" इति, तदा सा व्याघातरूपेण तकैण वारणीया । प्रथमा तु कार्यकारणभावभङ्गप्रसङ्गात्मकेन तकण वारिता । द्वितीया व्याघाताख्येन बाध्येति भावः । व्याघाताख्यतर्काकारं दर्शयति –“यदि ही"ति ।
अनुमेयेन सम्बद्धं प्रसिद्धञ्च तदन्विते ।
तदभावे च नास्त्येव तल्लिङ्गमनुमापकम ॥ इति । प्रपञ्चस्तु न्यायवात्तिकतात्पर्थटीकादिभ्योऽवसेयः ।