________________
तर्की, उपाधिश्च ।
५१७ wwwmarwmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm ननु तर्फ प्रति ज्याप्यापादकवत्ताज्ञानं कारणम् , तत्र व्याप्तिज्ञानप्रतिबन्धकम्मभिचारशङ्कानिवर्तकस्तर्कोऽपेक्षितः, एवं पुनरपप्यनवस्थैव स्यादत आह-"य"ति । स्वत एव-शङ्कासामग्रीविरहादेव । “न तर्कापेता" इत्यनन्तरम् “तो नानवस्थे" त्युपरिष्ठायोज्यम् । एवञ्च सर्वत्र न तर्कापेक्षेति भावः ।
इदमत्र बोध्यम्-व्याप्यारोपेण व्यापकारोपस्तर्कः । एवमाहार्यारोपविशेषः "तर्कयामि" इत्यनुभवाज्जिज्ञासाविशेषनिवर्तको मानसत्वव्याप्यो जातिविशेषस्तकः । सच सामान्यतो द्विविधो विषयपरिशोधक: व्याप्तिग्राहकश्चेति । प्रायो यथा-"निर्वहित स्यानिमोऽपि स्यात्" अर्थात् पर्वते यदि वहिर्न स्यात्तर्हि धूमोऽपि न स्यात् । अनेन तर्केण पर्वते वहिरूपविषयस्य परिशुद्धिः यतोऽन्न वन्यभावो ग्याप्यः, धूमाभाव व्यापकः । जलवदे वन्यभावो वर्ततेऽत एव तत्र धूमाभावोपि, न चैवं पर्वते । यदि तत्र जलद इव वन्यभावो भवेत् तदा धूमाभाव: स्यानत्वेवं तस्माद् धूमदर्शनेन मत्रानिरस्तीति वादी तर्केण जय्यो भवति । द्वितीयो यथा-"धूमो यदि वहिव्यभिचारी स्यात् तर्हि वह्निजन्यो न स्यात्"। एवं न्यभिचारशङ्कानिवृत्तिद्वारा अनुमानप्रमाणानुग्राहकस्तर्कः। तथाच पारमर्ष सूत्रम्-अविज्ञाततोऽर्थे कारणोपपत्ति. तस्तत्वज्ञानार्थमूहस्तः (न्या० १।१।४०)
सायं तर्कः पञ्चविधः-आत्माश्रयान्योन्याश्रयचक्रकानवस्थातदन्यवाधितार्थप्रसङ्गभेदात् । स्वस्य स्वागेक्षितत्वेऽनिष्टप्रसङ्ग प्रात्माश्रयः । सचोत्पत्तिस्थितिज्ञप्तिद्वारा वेधा । यथा -(क्रमशः) यद्ययं घट एतद्धटजन्यः स्यात् एतद्घटानधिकरणोत्तरक्षणवर्ती न स्यात् । यद्ययं घट एतद्घटवृत्तिः स्यात् एतद्घटव्याप्यो न स्यात् । यद्ययं घट एतद्घटज्ञानाभिन्नः स्यात् ज्ञानसामग्रीजन्यः स्यात् इति सर्वत्रापाद्यम् ।
तदपेच्यापेक्षितत्वनिबन्धनोऽनिष्टप्रसङ्गोऽन्योन्याश्रयः । सोऽपि पूर्ववत्रेधा । तदपेचयापच्यापेक्षितत्वनिबन्धनोऽनिष्टप्रसङ्गश्चक्रकम् । अस्यापि पूर्ववत्रूविष्यम् । अनवस्थितपरम्परोपाधीनामनिष्टप्रङ्गोऽनवस्था। तदन्यबाधितार्थप्रसङ्गस्तु न्याप्तिग्राहक एव । प्रथमोपस्थितत्वोत्सर्गविनिगमनाविरहित्वरूपसाधर्म्यात्तथा ब्यबहार इति सक्षेपः ॥ १३७ ॥ (का०) साध्यस्य व्यापको यस्तु हेतोरव्यापकस्तथा ।
स उपाधिर्भवेत्तस्य निष्कर्षोऽयं प्रदर्श्यते ॥१३८॥ (प्र० टी०) प्रसङ्गसङ्गत्योपाधि निरूपयति-परममूले “साध्यस्येति । यः साध्यस्य धूमादेापकः “यत्र यत्र धूमस्तत्र तत्राद्वैन्धनसंयोग" इति ज्याप्तेः । तथा हेतोः साधनस्य वन्ह्यादेरव्यापकः “यत्र यत्र वह्निस्तत्र सर्वत्रान्धसंयोग" इति नियमस्याभावात् स उपाधिः उपाधिनामको व्याप्तिप्रतिबन्धको धर्मः। तथाच"साध्यव्याकपत्वे सति साधनाव्यापकत्व" मुपाधलक्षणमुक्तं भवति ।