Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas

View full book text
Previous | Next

Page 402
________________ ३७४ सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः। गुणग्रन्थे कः। कार्यगतान् रूपादिगुणान् प्रति कारणगतास्त एव रूपादयः असमवायिनो भवन्ति । यथा घटस्य रूपादिकं प्रति कपालगतरूपादिकमसमवायिकारणमित्याशयेन "स्पर्शान्ते"ति प्रतीकमादायं "ज्ञेय" मित्यन्तं टीकयति । स्पष्टमन्यत् । (का०)-अथ वैशेषिके गुणे ।। ६७ ॥ आत्मनः स्यानिमित्तत्वम्(मु०) निमित्तत्वमिति । बुद्धयादीनामिच्छादिनिमित्तत्वादिति भावः। (प्र० टी० ) निमित्तकारणगुणानाह-"अथेति । प्रात्मन: वैशेषिके-विशेषगुणेबुद्धयादौ, इच्छादिकम्प्रति निमित्तत्वं=निमित्तकारणत्वं साधर्म्यमित्यर्थः । (का०)-उष्णस्पर्शगुरुत्वयोः । वेगेऽपि च द्रवत्वे च संयोगादिद्वये तथा ॥ ६ ॥ द्विधैव कारणत्वं स्याद्(प्र० टी० ) उभयविधगुणानाह-परममूले “उष्ण"ति (मु०) द्विधैवेति । असमवायिकारणत्वं निमित्तकारणत्वं च । तथाहि-उष्णस्पर्श उष्णस्पर्शस्यासमवायिकारणं पाकजे निमित्तम् । गुरुत्वं गुरुत्वपतनयोरसमवायिकारणं प्रतिघाते निमित्तम् । वेगो वेगस्यन्दनयोरसमवायी अभिघाते निमित्तम् । द्रवत्वं द्रवत्वस्यन्दनयोर. समवायी संग्रहे निमित्तम् । भेरीदण्डसंयोगः शब्दे निमित्तम् । भेर्याका. शसंयोगोऽसमवायी। वंशदलद्वयविभागः शब्दे निमित्तम् । वंशदलाकाशविभागोऽसमवायीति । (प्र. टी७ ) तदेतत्स्पष्टतया विवृणोति-"असमवायिकारणत्व" मित्यारभ्य "असमवायीति' इत्यन्तेन । संग्रहे-सत्कादिसंयोगविशेषे । सर्वमिदं निगदेनैव व्याख्यातम् । (का०) अथ प्रादेशिको भवेत् । वैशेषिका विभुगुणः संयोगादिद्वयं तथा ॥ ६ ॥ (मु०) प्रादेशिकोऽव्याप्यवृत्तिः ॥ ६७ ॥ ८ ॥ ६ ॥ (प्र० टी. ) अव्याप्यवृत्तिगुणानाह-"अथेति । बुद्धयादयः शब्दसंयोगविभागा अव्याप्यवृत्तयः-आश्रयैकदेशवर्तिन इत्यर्थः । स्पष्टकम् । (का०) चक्षुह्यं भवेद्रूपं द्रव्यादेपलम्भकम् । चक्षुषः सहकारि स्याच्छुक्लादिकमनेकधा ॥ १०॥ (प्र० टी० ) इदानीं रूपादीन् यथोद्देशं लक्षयति, तत्र तावत् रूपस्य लक्षण

Loading...

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486