________________
३७४
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः।
गुणग्रन्थे
कः। कार्यगतान् रूपादिगुणान् प्रति कारणगतास्त एव रूपादयः असमवायिनो भवन्ति । यथा घटस्य रूपादिकं प्रति कपालगतरूपादिकमसमवायिकारणमित्याशयेन "स्पर्शान्ते"ति प्रतीकमादायं "ज्ञेय" मित्यन्तं टीकयति । स्पष्टमन्यत् । (का०)-अथ वैशेषिके गुणे ।। ६७ ॥
आत्मनः स्यानिमित्तत्वम्(मु०) निमित्तत्वमिति । बुद्धयादीनामिच्छादिनिमित्तत्वादिति भावः।
(प्र० टी० ) निमित्तकारणगुणानाह-"अथेति । प्रात्मन: वैशेषिके-विशेषगुणेबुद्धयादौ, इच्छादिकम्प्रति निमित्तत्वं=निमित्तकारणत्वं साधर्म्यमित्यर्थः ।
(का०)-उष्णस्पर्शगुरुत्वयोः । वेगेऽपि च द्रवत्वे च संयोगादिद्वये तथा ॥ ६ ॥ द्विधैव कारणत्वं स्याद्(प्र० टी० ) उभयविधगुणानाह-परममूले “उष्ण"ति
(मु०) द्विधैवेति । असमवायिकारणत्वं निमित्तकारणत्वं च । तथाहि-उष्णस्पर्श उष्णस्पर्शस्यासमवायिकारणं पाकजे निमित्तम् । गुरुत्वं गुरुत्वपतनयोरसमवायिकारणं प्रतिघाते निमित्तम् । वेगो वेगस्यन्दनयोरसमवायी अभिघाते निमित्तम् । द्रवत्वं द्रवत्वस्यन्दनयोर. समवायी संग्रहे निमित्तम् । भेरीदण्डसंयोगः शब्दे निमित्तम् । भेर्याका. शसंयोगोऽसमवायी। वंशदलद्वयविभागः शब्दे निमित्तम् । वंशदलाकाशविभागोऽसमवायीति ।
(प्र. टी७ ) तदेतत्स्पष्टतया विवृणोति-"असमवायिकारणत्व" मित्यारभ्य "असमवायीति' इत्यन्तेन । संग्रहे-सत्कादिसंयोगविशेषे । सर्वमिदं निगदेनैव व्याख्यातम् ।
(का०) अथ प्रादेशिको भवेत् ।
वैशेषिका विभुगुणः संयोगादिद्वयं तथा ॥ ६ ॥ (मु०) प्रादेशिकोऽव्याप्यवृत्तिः ॥ ६७ ॥ ८ ॥ ६ ॥
(प्र० टी. ) अव्याप्यवृत्तिगुणानाह-"अथेति । बुद्धयादयः शब्दसंयोगविभागा अव्याप्यवृत्तयः-आश्रयैकदेशवर्तिन इत्यर्थः । स्पष्टकम् ।
(का०) चक्षुह्यं भवेद्रूपं द्रव्यादेपलम्भकम् ।
चक्षुषः सहकारि स्याच्छुक्लादिकमनेकधा ॥ १०॥ (प्र० टी० ) इदानीं रूपादीन् यथोद्देशं लक्षयति, तत्र तावत् रूपस्य लक्षण