________________
कारणगुणोपवादिगुणप्रपत्रः।
(का०) अपाकजास्तु स्पर्शान्ता द्रवत्वं च तथाविधम् ।
स्नेहवेगगुरुत्वैकपृथक्त्वपरिमाणकम् ॥६॥
स्थितिस्थापक इत्येते स्युः कारणगुणोद्भवाः । (मु०) अपाकजास्त्विति । पाकजरूपादीनां कारणगुणपूर्वकत्वाभावात् अपाकजा इत्युक्तम् । तथाविधमपाकजम् । तथैकत्वमपि बोध्यम् । स्पष्टम् ॥
(प्र० टी० ) कारणगुणोत्पन्नगुणानाह--परममूले “अपाकजास्त्वि "ति। पाको विलक्षण (विजातीय ) तेज:संयोगः । पाकाज्जाताः पाकजाः, न पाकजा अपाकजाः। स्पर्शान्ताः = रूपरसगन्धस्पर्शा इत्यर्थः। तथाविधम् = अपाकजं द्रवत्वं तदाख्यो गुण श्राद्यस्पन्दनासमवायिकारणं योऽस्तीत्यर्थः । एते अपाकजरूपादयःकारणगुणोद्भवाः स्युः । अन "अपाकजा" इति विशेषणं पाकजानां कारणगुणत्वाभावबोधनायेति बोध्यम् । स्पष्टमन्यत्। (का०) संयोगश्च विभागश्च वेगश्चैते तु कर्मजाः ॥६६॥
(मु०) कर्मजा इति । यद्यपि कर्मजत्वं न साधर्म्य घटादावतिव्याप्तः, संयोगजसंयोगेऽव्याप्तेश्च । तथापि-कर्मजवृत्तिगुणत्वव्याप्यजातिमत्त्वं बोध्यम् । एवमन्यत्राप्यूह्यम् ॥ १५ ॥६६॥
(प्र. टी.) कर्मजगुणानाह-परममूले “संयोगश्चे"ति । “कर्मजा" इति कर्म-वक्ष्यमाणलक्षणं तजाः कर्मासमवायिकारणका इत्यर्थः । साधर्म्यस्य प्रयाप्त्यतिव्याप्ती परिहर्तुमादौ तद्ग्रन्थमवतारयति-"यद्यपी"ति । परिहारप्रकारं दर्शयति-"तथापी"ति । ऊह्यमिति-आतिघटितं लक्षणं कार्यमित्यर्थः ॥ १५ ॥
(का० ) स्पर्शान्तपरिमाणैकपृथक्त्वं स्नेहशब्दके। भवेदसमवायित्वं
(मु०) स्पर्शान्तेति । [स्पर्शोऽत्रानुष्णो ग्राह्यः] एकपृथक्त्वमित्यत्र त्वप्रत्ययस्य प्रत्येकमन्वयादेकत्वं पृथक्त्वं च ग्राह्यम् । पृथक्त्वपदेन चैकपृथक्त्वं विवक्षितम् । भवेदसमवायित्वमिति । घटादिरूपरसगन्धस्पर्शाः कपालादिरूपरसगन्धस्पर्शभ्यो भवन्ति । एवं-कपालादिपरिमाणादीनां घटादिपरिमाणाद्यसमवायिकारणत्वम् । शब्दस्यापि द्वितीयशब्दं प्रत्यसमवायिकारणत्वम् । एवं स्थितिस्थापकैकपृथक्त्वयोरपि शेयम् ॥
(प्र० टी० ) असमवायिकारणगुणानाह-परममूले "स्पर्शान्ते"ति । स्पर्शोऽन्ते येषां ते स्पर्शान्ताः, एकञ्च पृथक् चैकपृथक तयोर्भाव: एकपृथक्त्वम् , स्पर्शान्ताश्च परिमाण मेहश्च शब्दकश्चेत्येतेषां समाहारः तस्मिन् शब्द एव शब्दक इति स्वार्थे